मुमुदे ऽतितरां भूपः स्वयं कर्तुं समुद्यतः
ततो राजाज्ञया सो ऽपि बुद्धिसागरको मुदा
धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम्
तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत्
पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम्
प्रमृतो गतवांल्लोकं लोकशास्तुर्मम प्रभो
चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत्
तस्माद्धर्मविमानं तु समारोढुमिहार्हति
विमानं धर्मसंज्ञं तु आरोढुं बुद्धिसागरः
मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः
कथितं चित्रगुत्पेन धर्मं सरसिसंभवम्
अधित्यकायां भूपाल सैकतस्य गिरेः परा
ततः कालान्तरे तेन वाराहेण नृपोत्तम
ततो ऽन्यदामुया काल्याहस्त युग्ममितः कृतः
पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः
हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम्
भवांस्तत्र समायातो जलशोषाद नन्तरम्
ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया
वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः
विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह
आरुरोह विमानं तत्षष्ठो राजा समांशभाक्
श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात्
सो ऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसंभवम्
शिवस्यापि हरेर्वापि तस्य पुण्यफलं शृणु
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु
कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत्
ततस्तु योगिनामेव कुले जातो दयोन्विताः