सर्वसक्षोभणगता सौभाग्यप्रदसंस्थिता
सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता
प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्ततरापि च
रहस्यापरापरप्राकृत्तथैवातिरहस्यका
श्रीमालिनी च सिद्धान्ता महात्रिपुरसुंदरी
कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका
तत्त्वाग्रहगाभिधा मूर्तिस्तथैव विषयद्विपा
समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक्
पञ्चधार्यास्वरूपा च नानाव्रतसमाह्वया
चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी
तिथिवारपृथग्द्रव्यसमर्चनशुभावहा
अनङ्गमदनानङ्गमदनातुरसाह्वया
शशिलेखा समुद्दिष्टा गतिलेखाह्वया मता
मनोहरा समाख्याता तथैव हि मनोरथा
शोषिणी चैव शङ्कारी सिंजिनी सुभगा तथा
ऋद्धिः सौम्या मरीचिश्च तथैव ह्यंशुमालिनी
तुष्टिस्तथामृताख्या च डाकिनी साथ लोकपा
कामराजस्वरूपा च तथा मन्मथरूपिणी
मनोभवस्वरूपा च भारती वर्णरूपिणी
ह्लादिनी द्राविणी प्रीती रती रक्ता मनोरमा
अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा
नित्या निरञ्जना क्लिन्ना क्लेदेनी मदनातुरा
मदाविला मङ्गला च मन्मथानी मनस्विनी
विजया विमला चैव शुभा विश्वा तथैव च
कमला कामिनी चैव किराता कीर्तिरूपिणी
कल्याणी कालकोला च डाकिनी शाकिनी तथा
इच्छाज्ञाना क्रियाख्या चाप्यायुधाष्टकधारिणी
ज्वालिनी विस्फुलिङ्गा च मङ्गला सुमनोहरा
मेषा वृषाह्वया चैव मिथुना कर्कटा तथा
कुम्भा मीना च सारा च सर्वभक्षा तथैव च