नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी
नित्या संवित्तथा नीलपताका विजयाह्वया
चित्रा चेति क्रमान्नित्याः षोडशपीष्टविग्रहाः
वशिनी चापि कामेशी मोहिनी विमलारुणा
मुद्राणन्तनुरिष्वर्णरूपा चापार्णविग्रहा
त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी
नमस्कृतिस्तथा संक्षोभणी विद्रावणी तथा
उन्मादिनी महापूर्वा कुशाथो खेचरी मता
अणिमा लघिमा चैव महिमा गरिमा तथा
भुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरूपा च कीर्तिता
वाराहीन्द्राणी चामुण्डा महालक्ष्मीस्वरूपिणी
रूपरूपा रसाह्वा च गन्धवित्तधृतिस्तथा
कुसुमा मेखला चापि मदना मदनातुरा
संक्षोभिणी तथा विद्राविण्याकर्षणरूपिणी
स्तंभिनीजंभिनीचैव वशङ्कर्यथ रञ्जिनी
संपत्तिपूर्णा सा मन्त्रमयी द्वन्द्वक्षयङ्करी
कामप्रदा निगदिता तथा दुःखविमोचिनी
अङ्गसुंदरिका चैव तथा सौभाग्यदायिनी
विन्ध्यवासनका घोरस्वरूपा पापहारिणी
जयिनी विमला चाथ कामेशी वज्रिणी भहगा
सर्वसक्षोभणगता सौभाग्यप्रदसंस्थिता
सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता
प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्ततरापि च
रहस्यापरापरप्राकृत्तथैवातिरहस्यका
श्रीमालिनी च सिद्धान्ता महात्रिपुरसुंदरी
कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका
तत्त्वाग्रहगाभिधा मूर्तिस्तथैव विषयद्विपा
समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक्
पञ्चधार्यास्वरूपा च नानाव्रतसमाह्वया
चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी