वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम्
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम्
पूजादौ तस्य सर्वाता वरदाः स्युर्न संशयः
येन देवासुरनरजयी स्यात्साधकः सदा
कामेशी पुरतः पातु भगमाली त्वनन्तरम्
नित्यक्लिन्नाथं भेरुण्डादिशं मे पातु कौणपीम्
महावज्रेश्वरी नित्या वायव्ये मां सदावतु
माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी
अधो नीलपताकाख्या विजया सर्वतश्च माम्
देहॄन्द्रियमनः प्राणाञ्ज्वालामालिनिविग्रहा
कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि
स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति
तथा हयसमारूढाः पान्तु मां सर्वतः सदा
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे
भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा
द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम
असंख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा
कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः
यस्य शन्धारणान्मर्त्यो निर्भयो विजयी सुखी
षोडशानामपि मुने स्वस्वक्रमगतात्मकम्
नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी
नित्या संवित्तथा नीलपताका विजयाह्वया
चित्रा चेति क्रमान्नित्याः षोडशपीष्टविग्रहाः
वशिनी चापि कामेशी मोहिनी विमलारुणा
मुद्राणन्तनुरिष्वर्णरूपा चापार्णविग्रहा
त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी
नमस्कृतिस्तथा संक्षोभणी विद्रावणी तथा
उन्मादिनी महापूर्वा कुशाथो खेचरी मता
अणिमा लघिमा चैव महिमा गरिमा तथा
भुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरूपा च कीर्तिता