भजतामिष्टदाः सद्यः सर्वपापक्षयङ्कराः
नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरः सरम्
भूम्यादीनिशिवान्तानि विद्धि तत्त्वानि नारद
एतानि प्राहमनोवृत्त्या चिन्तयेत्साधकोत्तमः
नमस्ते नाथ भगवञ्शिवाय गुरुरूपिणे
नवाय नवरूपाय परमार्थैकरूपिणे
स्वतन्त्राय दयाकॢप्तविग्रहाय शिवात्मने
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्
पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः
इति स्तुत्वा गुरुं भक्त्या परां देवीं विचिन्तयेत्
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम्
कालहृल्लोहोलोल्लोहकलानाशनकारिणीम्
रवितार्क्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम्
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम्
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते
ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम्
प्रणमामि महादेवीं परमानन्दरूपिणीम्
केयं कस्मात्क्व केनेति सरूपारूपभावनाम्
देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम्
वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम्
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम्
पूजादौ तस्य सर्वाता वरदाः स्युर्न संशयः
येन देवासुरनरजयी स्यात्साधकः सदा
कामेशी पुरतः पातु भगमाली त्वनन्तरम्
नित्यक्लिन्नाथं भेरुण्डादिशं मे पातु कौणपीम्
महावज्रेश्वरी नित्या वायव्ये मां सदावतु
माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी
अधो नीलपताकाख्या विजया सर्वतश्च माम्
देहॄन्द्रियमनः प्राणाञ्ज्वालामालिनिविग्रहा