वाराही पञ्चमी विश्वविजया भद्रकौमुदी
अङ्गानि कुर्यान्मन्त्रार्णैः सप्तभिषड्भिरेव च
त्रिकोणवृत्तषट्कोणवृत्तद्वयसमन्वितम्
ध्यायेच्च देवीं कीलास्यां ततः काञ्चनसन्निभाम्
त्रिनेत्रामष्टहस्तां च चक्रं शङ्खमथाङ्कुशम्
दधानां गरुडस्कन्धे सुखासीनां विचिन्तयेत्
प्रयोगेषु स्मरेद्देवीं सिंहस्थां व्याघ्रगामपि
श्यामामप्यरुणां पीतामसितांभोजविग्रहाम्
अरुणां पञ्चमीं वश्ये पीतां स्तंभनके स्मरेत्
धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः
भजतामिष्टदाः सद्यः सर्वपापक्षयङ्कराः
नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरः सरम्
भूम्यादीनिशिवान्तानि विद्धि तत्त्वानि नारद
एतानि प्राहमनोवृत्त्या चिन्तयेत्साधकोत्तमः
नमस्ते नाथ भगवञ्शिवाय गुरुरूपिणे
नवाय नवरूपाय परमार्थैकरूपिणे
स्वतन्त्राय दयाकॢप्तविग्रहाय शिवात्मने
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्
पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः
इति स्तुत्वा गुरुं भक्त्या परां देवीं विचिन्तयेत्
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम्
कालहृल्लोहोलोल्लोहकलानाशनकारिणीम्
रवितार्क्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम्
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम्
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते
ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम्
प्रणमामि महादेवीं परमानन्दरूपिणीम्
केयं कस्मात्क्व केनेति सरूपारूपभावनाम्
देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम्