आचार्येभ्यः सदा भूपः शृणोति विधिपूर्वकम्
धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः
स चैकदा तु नृपतिर्मृगयायां महावने
दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै
ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत्
कथं जलं भवेदत्र येन जीवेदयं नृपः
हस्तमात्रं ततो गर्त्तं खात्वा तोयमवात्पवान्
मन्त्रिणश्चापि भूमिश बुद्धिसागरसंज्ञिनः
राजन्नियं पुष्करिणी वर्षाजलवती पुरा
तद्भवान्मोदतां देव दत्तादाज्ञां च मे ऽनघ
मुमुदे ऽतितरां भूपः स्वयं कर्तुं समुद्यतः
ततो राजाज्ञया सो ऽपि बुद्धिसागरको मुदा
धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम्
तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत्
पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम्
प्रमृतो गतवांल्लोकं लोकशास्तुर्मम प्रभो
चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत्
तस्माद्धर्मविमानं तु समारोढुमिहार्हति
विमानं धर्मसंज्ञं तु आरोढुं बुद्धिसागरः
मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः
कथितं चित्रगुत्पेन धर्मं सरसिसंभवम्
अधित्यकायां भूपाल सैकतस्य गिरेः परा
ततः कालान्तरे तेन वाराहेण नृपोत्तम
ततो ऽन्यदामुया काल्याहस्त युग्ममितः कृतः
पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः
हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम्
भवांस्तत्र समायातो जलशोषाद नन्तरम्
ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया
वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः
विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह