षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां जयेत्
वायुप्रणवतत्त्वैस्तु चित्रास्यादक्षरद्वया
विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात्
उद्यदादित्यबिंबाभां नवरत्नविभूषणाम्
चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम्
चतुर्भुजेषु वै पाशमङ्कुशं वरदाभये
तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम्
व्यासं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम्
दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम्
अंबु पश्चाद्विषयुक्तं मरुता तु नभोयुतम्
अस्याः षष्ठादिपञ्चार्णा दैत्यास्यादाद्य ईरितः
तृतीयः पञ्चविंशार्णः प्रोक्ता मन्त्रा इति क्रमात्
विकीर्णकुन्तलां नग्रां रक्तामानन्दविग्रहाम्
तत्समानायुधाकारवर्णा देव्यास्तु वा
इत्येषा कुरुकुल्लान्ते प्रोक्ता चन्द्रावलीस्वयम्
शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्ररसिस्थिरा
इलसायुतो ऽग्निरेतानि पुनरंबुमरुद्युतम्
अम्बुदाहौ मरुद्युक्तौ हंसो ऽथ धरया नभः
तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः
दाहो धरा स्वसहरितस्तोयं चरसमन्वितम्
ज्याख्येन युक्ता सचरो रभश्चैतस्य पूर्वकम्
शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम्
रसश्चरेण तत्पूर्वमग्निना च रसो युतः
प्राणः स्वेन युतः पश्चाद्धृदयस्वयुतं रसः
गोत्राभरायुता स्पर्शो नादयुक्तो जवीयुतः
शून्यं मरुत्स्वसहितं हृद्दाहेनांबुना चरः
ज्याग्निः स्वसंयुतो हंसस्तथांबु मरुता सह
प्राणदाहौ धरायुक्तौ पुनस्तौ वह्निना वियत्
पूर्वद्विरुक्तवर्णौ च शुद्धिः स्वेन युतस्तथा
युतिर्नादवती पश्चाद्धृदंबुमरुता युतम्