हृदंबुवनयुक्तं खं नित्या स्यात्सर्वमङ्गला
षड्दीर्घाढ्यां मूलविद्यां षडङ्गेषु प्रविन्यसेत्
माणिक्यमुकुटां नेत्रद्वयप्रेङ्खद्दयापराम्
पत्रैरुपेते सचतुद्वारंभूसद्मयुग्मके
वामेन निजभक्तानां प्रयच्छन्तीं धनादिकम्
षट्सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम्
एषा चतुर्दशी प्रोक्ता तथा पञ्चदशीं शृणु
रयोग्निना युतीज्यांबुमरुद्युक्तारसा मरुत्
गोत्रा चरेण सहिता अंबुपूर्वाक्षरस्तथा
हंसश्च मरुता दाहः प्राणश्च मरुता युतः
चरेणांबु च गोत्राहृत्साग्निर्ज्यांबुरसा स्वयुक्
दाहेनानेन ते द्विः स्याद्भस्वो दाहमरुत्स्वयुक्
सप्तदाहास्ततो ऽस्याः स्युरष्टमाद्यास्तु पञ्च ते
त्वरिता त्वं च भेरुण्डाष्टमं च नवनं तथा
एकद्वयचतुःपञ्चचतुष्टयदशाक्षरैः
शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम्
षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम्
शूलवह्नी वराभीती दधानां कपपङ्कजैः
चारुस्मितलसद्वक्त्र सरोजां त्रीक्षणान्वताम्
चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम्
षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां जयेत्
वायुप्रणवतत्त्वैस्तु चित्रास्यादक्षरद्वया
विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात्
उद्यदादित्यबिंबाभां नवरत्नविभूषणाम्
चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम्
चतुर्भुजेषु वै पाशमङ्कुशं वरदाभये
तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम्
व्यासं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम्
दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम्
अंबु पश्चाद्विषयुक्तं मरुता तु नभोयुतम्