दधानां दक्षिणैर्हस्तैर्ध्यायेद्देवीमनन्यधीः
त्वरितोयान्त्यमाद्यं स्याद्युतिदोहचरस्वयुक्
मरुत्स्वयुक्तो मध्याढ्यो दशम्याः परतः पुनः
षडक्षराणि त्वरिता तृतीयं तदनन्तरम्
उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी
श्रोत्रादिनासायुगले वाचि कण्ठे हृदि क्रमात्
मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशापि च
इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम्
दशहस्तां लसन्मुक्तामण्याभरणमण्डिताम्
पाशं पताकां चर्मापि शार्ङ्गचापं वरं करैः
अङ्कुशे च तथा शर्क्ति खङ्गं बाणं तथाभयम्
स्वाकारवर्णवेषास्यपाण्यायुधविभूषणैः
त्रिषट्कोणयुतं पद्ममष्टपत्रं ततो बहिः
चतुर्द्वारयुतं दिक्षु शाखाभिश्च समन्वितम्
एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी
वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी
अथ त्रयोदेशीं नित्यां वक्ष्यामि शृणु नारद
खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने
शेषाभ्यां च द्वयं कुर्यात्षडङ्गानि कराङ्गयोः
अक्षराणि क्रमाद्बिन्दुयुतान्यन्यत्तु पूर्ववत्
भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम्
उद्यद्भास्वद्बिंबतुल्यदेहकान्तिं शुचिस्मिताम्
चक्रं तथाङ्कुशं खङ्गं सायकं मातुलुं गकम्
उपासनेति सौम्यां च सिंहोपरि कृतासनाम्
समरे पूजने ऽन्येषु प्रयोगेषु सुखासनाम्
सर्वा देव्याः समाकारमुखपाण्यायुधा अपि
शाखष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत्
तदन्तश्च तथा पद्मं षोडशच्छदसंयुतम्
तत्तच्छक्त्या वृतां सम्यगुपचारैस्तथार्चयेत्
चतुर्दशीं प्रवक्ष्ये ऽथ नित्यां वै सर्वमङ्गलाम्