वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम्
गुञ्जागुणलसद्वक्षः कुचकुङ्कुममण्डलाम्
पाशाङ्कुशवराभीतिलसद्भुजचतुष्टयाम्
तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला
एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वर
शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः
इतीरिता त्र्यक्षराख्या नित्येयं कुलसुंदरी
त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडङ्गकम्
प्रत्येक तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः
ऊर्द्ध्वप्राग्दक्षिणोदक्च पश्चिमाधस्नाग्नभिः
आधाररन्ध्रहृत्स्वेकं द्वितीयं लोचनत्रये
पञ्चमं चांसनाभीषु ततः पाणिपदद्वये
लोहितां लोहिताकारशक्तिंबृदनिषेविताम्
अनर्ध्यरत्नघटितमाणिक्यमुकुटोज्वलाम्
कारुण्यानन्दपरमा मरुणांबुजविष्टराम्
प्रवालाक्षस्रजं पद्मं कुण्डिकां रत्ननिर्मिताम्
दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम्
अभितः स्तूयमानां च देवगन्धर्वकिन्नरैः
ध्यात्वैवमर्चन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये
धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च
इत्येषा दशमी नित्याप्रोक्ता ते कुलसुन्दरी
हंसश्च हृत्प्राणरसादाहकर्णैः समन्वितः
नित्यानित्यत्रिवर्णेयं षड्भिः कूटाक्षरैर्युता
यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी
दीर्घस्वरसमेताभ्यां हंसहृभ्द्यां षडङ्गकम्
विद्याक्षराणि क्रमशो न्यसेद्विन्दुयुतानि च
ध्यायेत्समस्तसंपत्तिहेतोः सर्वात्मिकां शिवाम्
पद्मरागकृताकल्पामरुणांशुकधारिणीम्
प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युताम्
करैर्वामैर्दधानां च अङ्कुशं पुस्तकं तथा