कत्कर्तुः सर्वपापानि नश्यन्त्येव न संशयः
स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि
सो ऽपि तत्फलनाप्नोति तुष्टः प्रेरक एव च
तिष्टत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः
तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः
यं शृत्वा सर्वपायेभ्यो मुच्यते नात्र संशयः
महाप्रतीपी विद्यावान्सदा विप्रप्रपूजकः
तस्य राज्ञी महाभागा नान्मा चम्पकमञ्जरी
धर्माणां धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम्
विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्मघातकम्
आचार्येभ्यः सदा भूपः शृणोति विधिपूर्वकम्
धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः
स चैकदा तु नृपतिर्मृगयायां महावने
दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै
ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत्
कथं जलं भवेदत्र येन जीवेदयं नृपः
हस्तमात्रं ततो गर्त्तं खात्वा तोयमवात्पवान्
मन्त्रिणश्चापि भूमिश बुद्धिसागरसंज्ञिनः
राजन्नियं पुष्करिणी वर्षाजलवती पुरा
तद्भवान्मोदतां देव दत्तादाज्ञां च मे ऽनघ
मुमुदे ऽतितरां भूपः स्वयं कर्तुं समुद्यतः
ततो राजाज्ञया सो ऽपि बुद्धिसागरको मुदा
धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम्
तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत्
पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम्
प्रमृतो गतवांल्लोकं लोकशास्तुर्मम प्रभो
चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत्
तस्माद्धर्मविमानं तु समारोढुमिहार्हति
विमानं धर्मसंज्ञं तु आरोढुं बुद्धिसागरः
मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः