अथ ते नवमीं नित्यां त्वरितां नाम नारद
आद्यं तु वह्निवासिन्या दूत्यादिस्तदनन्तरम्
वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः
हंसः क्ष्माखंयुतो ग्रासश्चरयुक्तो द्वितीयकः
विद्या चतुर्थवर्णादिसप्तभिस्त्वक्षरैस्तथा
शिरोललाटकण्ठेषु हृन्नाभ्याधारके तथा
पादयुग्मे तथा वर्णान्मन्त्रजान्दश विन्यसेत्
ताराद्यैः शृणु तद्ध्यानं सर्वसिद्धिविधायकम्
द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः
विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः
वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम्
गुञ्जागुणलसद्वक्षः कुचकुङ्कुममण्डलाम्
पाशाङ्कुशवराभीतिलसद्भुजचतुष्टयाम्
तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला
एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वर
शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः
इतीरिता त्र्यक्षराख्या नित्येयं कुलसुंदरी
त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडङ्गकम्
प्रत्येक तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः
ऊर्द्ध्वप्राग्दक्षिणोदक्च पश्चिमाधस्नाग्नभिः
आधाररन्ध्रहृत्स्वेकं द्वितीयं लोचनत्रये
पञ्चमं चांसनाभीषु ततः पाणिपदद्वये
लोहितां लोहिताकारशक्तिंबृदनिषेविताम्
अनर्ध्यरत्नघटितमाणिक्यमुकुटोज्वलाम्
कारुण्यानन्दपरमा मरुणांबुजविष्टराम्
प्रवालाक्षस्रजं पद्मं कुण्डिकां रत्ननिर्मिताम्
दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम्
अभितः स्तूयमानां च देवगन्धर्वकिन्नरैः
ध्यात्वैवमर्चन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये
धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च