तद्विधानं शृणुष्वाद्य साधकानां सुसिद्धिदम्
ततोंऽबुशून्ये हंसाग्निह्युत्तमंबुमरुद्युतम्
शून्यं नभः शक्तियुतं नवार्णेयमुदाहृता
मायान्तान्षड्भिरेवां गान्याचरेत्सकराङ्गयोः
व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये
तप्तकाञ्चनसंकाशां नवयौवनसुन्दरीम्
अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम्
पीतकौशेयवसनां रत्नमञ्जीरमेखलाम्
रत्नाब्जकंबुपुण्ड्रेक्षुचापपूर्णेन्दुमण्डलम्
पुष्पेषुं मातुलिङ्गं च दधानां दक्षिणैः करैः
एवं ध्यात्वार्चयेद्वह्निवासिनीं वह्निविग्रहम्
अथ या सप्तमी नित्या महावज्रेश्वरी मुने
द्वितीयं वह्विवासिन्या नित्यक्लिन्ना चतुर्थकम्
नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ
द्वयमेकैकमथ च द्वयद्वयमथ द्वयम्
प्रत्येकं शक्तिपुटुतैर्मन्त्रार्णैर्दशभिर्न्यसेत्
रक्तां रक्तांबरां रक्तगङ्घमालाविभूषणाम्
पाशाङ्कुशामिक्षुचापं दाडिमीशायकं तथा
पश्यन्ती साधके अस्त्रषट्कोणाब्जमहीपुरे
शक्तिभिः स्वस्वरूपाभिरावृतां पीतमध्यगाम्
वृतां ताभिर्विनोदानि यातायातादिभिः सदा
एषा तु सप्तमीप्रोक्ता दूतिं चाप्यष्टमीं शृणु
अंबु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः
अत्यार्णां वह्निवासिन्या दूती नित्या समीरिताः
तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसु
निदाघकालमध्याह्नदिवाकरसमप्रभाम्
नानाभरणसंभिन्नदेहकान्तिविराजिताम्
पाशं खेटं गदां रत्नचषकं वामबाहुभिः
दधानां साधकाभीष्टदानोद्यमसमन्विताम्
इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी