भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः
ज्या च दाहेन तद्युक्ता नित्याक्लिन्नान्तगद्वयम्
प्रणवं ठद्वयं त्यक्त्वा मध्यस्थैः षड्भिरक्षरैः
रन्ध्राद्यामुखकण्ठेषु हन्नाभ्यां धारयद्वयम्
अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम्
चारुस्मितां चितमुखीं दिव्यालङ्कारभूषिताम्
रसनानूपुरोर्म्यादिभूषणैरतिसुन्दरीम्
करैर्दधानामासीना पूजायां मत्पसस्थिताम्
पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः
यस्याः स्मरणतो नश्येद्गरलं त्रिविधं क्षणात्
तद्विधानं शृणुष्वाद्य साधकानां सुसिद्धिदम्
ततोंऽबुशून्ये हंसाग्निह्युत्तमंबुमरुद्युतम्
शून्यं नभः शक्तियुतं नवार्णेयमुदाहृता
मायान्तान्षड्भिरेवां गान्याचरेत्सकराङ्गयोः
व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये
तप्तकाञ्चनसंकाशां नवयौवनसुन्दरीम्
अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम्
पीतकौशेयवसनां रत्नमञ्जीरमेखलाम्
रत्नाब्जकंबुपुण्ड्रेक्षुचापपूर्णेन्दुमण्डलम्
पुष्पेषुं मातुलिङ्गं च दधानां दक्षिणैः करैः
एवं ध्यात्वार्चयेद्वह्निवासिनीं वह्निविग्रहम्
अथ या सप्तमी नित्या महावज्रेश्वरी मुने
द्वितीयं वह्विवासिन्या नित्यक्लिन्ना चतुर्थकम्
नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ
द्वयमेकैकमथ च द्वयद्वयमथ द्वयम्
प्रत्येकं शक्तिपुटुतैर्मन्त्रार्णैर्दशभिर्न्यसेत्
रक्तां रक्तांबरां रक्तगङ्घमालाविभूषणाम्
पाशाङ्कुशामिक्षुचापं दाडिमीशायकं तथा
पश्यन्ती साधके अस्त्रषट्कोणाब्जमहीपुरे
शक्तिभिः स्वस्वरूपाभिरावृतां पीतमध्यगाम्