सचरः स्याज्जवीपूर्वविद्या तर्तीयतः क्रमात्
हृदंबुयुक् क्ष्मया दाहः सचरः स्याज्जवी च हृत्
स्थिरा तु मरुता युक्ता शून्यं साग्निनभश्चरौ
दाहो गोत्राचरयुता तथा दाहस्तथा रयः
रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत्
शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः
गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत्
ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः
दाहोनांबु च हृत्पश्चाद्रयेंऽबुमरुदन्वितः
वियदंबुयुतं दाहस्त्वग्नियुक्सयुतः शुचिः
तदन्तरित बीजानि स्वसंयुक्तानि पञ्च वै
हंसश्चरयुतो द्विः स्यात्ततः प्राणो रसाग्नियुक्
व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा
अंबु पश्चाद्वियत्तस्मान्नभश्च मरुदन्वितम्
हंसः सदाहो ऽम्बगुरसा चरस्वैः संयुतो भवेत्
सप्तत्रिंशच्छतार्णैः स्यान्नित्या सौभागमालिनी
ततश्चतृर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता
अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम्
कह्लारपाशपुण्ड्रेक्षुकोदण्डान्वामबाहुभिः
तथाविधाभिः परितो युतां शक्तिगणैः स्तुतैः
एषा तृतीया कथिता वनिता जनमोहिनी
हंसस्तु दाहवह्निस्वैर्युक्तः प्रथममुच्यते
हृदंबुमरुता युक्तः स एवैकादशाक्षरः
आद्येन मन्त्रवर्णेन हृदयं समुदीरितम्
न्यसेदङ्गुष्ठमूलादिकनिष्ठाग्रान्तमूर्द्ध्वगम्
त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत्
अरुणस्रग्विलेपां तां चारुस्मेरमुखांबुजाम्
विराजमानां मुकुटलसदर्द्धेन्दुशेखराम्
अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम्
पुण्या चतुर्थी गदिता नित्याक्किन्नाह्वया मुने