मण्डितां रक्तवसनां रत्नाभरणशोभिताम्
पञ्चाष्टषोडशद्वन्द्वषट्कोणचतुरस्रगाम्
पाशाङ्कुशौ च पुण्ड्रेक्षुचापं पुष्पशिलीमुखम्
ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः
कामेश्वर्यादिरादिः स्याद्रसश्चापस्थिरारसः
स्थिराशून्ये ऽग्निसंयुक्ते रसः स्यात्तदनन्तरम्
नभश्च मरुता युक्तं रसवर्णसमन्वितम्
अंबहंसचरो ऽथिक्तो रसो ऽथ स्यात्स्थिरा पुनः
रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक्
रयः शून्यं चाग्नियुतं हृदाहंसाच्च तत्परम्
सचरः स्याज्जवीपूर्वविद्या तर्तीयतः क्रमात्
हृदंबुयुक् क्ष्मया दाहः सचरः स्याज्जवी च हृत्
स्थिरा तु मरुता युक्ता शून्यं साग्निनभश्चरौ
दाहो गोत्राचरयुता तथा दाहस्तथा रयः
रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत्
शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः
गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत्
ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः
दाहोनांबु च हृत्पश्चाद्रयेंऽबुमरुदन्वितः
वियदंबुयुतं दाहस्त्वग्नियुक्सयुतः शुचिः
तदन्तरित बीजानि स्वसंयुक्तानि पञ्च वै
हंसश्चरयुतो द्विः स्यात्ततः प्राणो रसाग्नियुक्
व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा
अंबु पश्चाद्वियत्तस्मान्नभश्च मरुदन्वितम्
हंसः सदाहो ऽम्बगुरसा चरस्वैः संयुतो भवेत्
सप्तत्रिंशच्छतार्णैः स्यान्नित्या सौभागमालिनी
ततश्चतृर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता
अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम्
कह्लारपाशपुण्ड्रेक्षुकोदण्डान्वामबाहुभिः
तथाविधाभिः परितो युतां शक्तिगणैः स्तुतैः