तथैव यातनाः प्रोक्ता असंख्या घोरदर्शताः
तस्मातंसमासतो वक्ष्ये धर्माधर्ममिदर्शनम्
तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम्
यो दत्त्वा स्यापयेदृतिं तस्य पुण्यफलं शृणु
निर्विश्य विष्णुभवनं कल्पं तत्रैव मादते
न गण्यन्ते विधात्रापि ब्रहह्मवृत्तिफलानि वै
जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः
स स्त्रातः सर्वतीर्थेषु तत्पं तेनाखिलं तपः
सो ऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः
वक्तुं तत्पुण्यसंख्यानं नालं वर्षशतायुषा
कत्कर्तुः सर्वपापानि नश्यन्त्येव न संशयः
स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि
सो ऽपि तत्फलनाप्नोति तुष्टः प्रेरक एव च
तिष्टत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः
तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः
यं शृत्वा सर्वपायेभ्यो मुच्यते नात्र संशयः
महाप्रतीपी विद्यावान्सदा विप्रप्रपूजकः
तस्य राज्ञी महाभागा नान्मा चम्पकमञ्जरी
धर्माणां धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम्
विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्मघातकम्
आचार्येभ्यः सदा भूपः शृणोति विधिपूर्वकम्
धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः
स चैकदा तु नृपतिर्मृगयायां महावने
दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै
ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत्
कथं जलं भवेदत्र येन जीवेदयं नृपः
हस्तमात्रं ततो गर्त्तं खात्वा तोयमवात्पवान्
मन्त्रिणश्चापि भूमिश बुद्धिसागरसंज्ञिनः
राजन्नियं पुष्करिणी वर्षाजलवती पुरा
तद्भवान्मोदतां देव दत्तादाज्ञां च मे ऽनघ