विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः
ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ
भूमी रसो नमो व्याप्तं दाहश्चापि रसांबु च
चन्द्रावली च ललिता हंसेला नायके मते
शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः
ललिताप्रमुखाणां तु षोडशीत्वमुपागता
कुरुकुल्ला च वाराही चन्द्रालिललिते उभे
हृत्प्राणेलाहंसदावह्निस्वैर्ललितेरिता
हंसाद्ययाद्या मध्या स्यादादिमध्यस्थहंसया
आसु तुर्याभवन्मुक्त्यै तिस्रो ऽन्याः स्युश्चसंपदे
दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम्
शून्यमंबुरसावह्निस्वयोगान्मोहनीमनुः
ज्यानभोदाहवह्निस्वयोगैः स्यादरुणामनुः
कं नभोदाहसहितं व्याप्तक्ष्मास्वयुतं मनुः
ग्रासो नभोदाहवह्निस्वैर्युक्तः कौलिनीमनुः
वाग्देवतान्तैर्न्यासः स्याद्येन देव्यात्मको भवेत्
नाभावाधारके पादद्वये मूलाग्रकावधि
लोहितां ललितां बाणचापपाशसृणीः करैः
मध्यस्थदेवी त्वेकैव षोडशाकारतः स्थाता
ऋषिः शिवश्छन्द उक्ता देवता ललितादिकाः
पटले तु प्रयोगांश्च वक्ष्याम्यग्रे सविस्तरम्
कामेश्वरीति तां सर्वकामदां शृणु नारद
शून्यमग्नियुतं पश्चाद्रयोव्याप्तेन संयुतम्
नभोगोत्रा पुनश्चैषां दाहेन समयोजिता
एषा कामेश्वरी नित्या कामदैकादशाक्षरी
एकेन हृदयं शीर्षं तावताथो द्वयं द्वयात्
दृक्श्रोत्रनासाद्वितये जिह्वाहृन्नाभिगुह्यके
न्यसेद्विद्याक्षराण्येषु स्थानेषु तदनन्तरम्
अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम्
बालार्ककोटिसंकाशां माणिक्यमुकुटोज्ज्वलाम्