मालावतीमुखाष्टानां चन्द्रावल्यधिपास्मृता
राधाचरणपूजायामुक्ता मालावतीमुखाः
कलावती मधुमती विशाखा श्यामलाभिधा
सुशीलाप्रमुखा श्चान्याः सख्यो द्वात्रिंशदीरिताः
सुशीलां शशिलेखा च यमुना माधवी रतिः
चन्द्रानना पद्ममुखी सावित्री च सुधामुखी
कालिका कमला दुर्गा विरजा भारती सुरा
अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः
ससर्ज षोडशकलास्ताः सर्वास्तत्समप्रभाः
वर्णये सर्वतन्त्रेषु रहस्यं मुनिसत्तम
विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः
ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ
भूमी रसो नमो व्याप्तं दाहश्चापि रसांबु च
चन्द्रावली च ललिता हंसेला नायके मते
शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः
ललिताप्रमुखाणां तु षोडशीत्वमुपागता
कुरुकुल्ला च वाराही चन्द्रालिललिते उभे
हृत्प्राणेलाहंसदावह्निस्वैर्ललितेरिता
हंसाद्ययाद्या मध्या स्यादादिमध्यस्थहंसया
आसु तुर्याभवन्मुक्त्यै तिस्रो ऽन्याः स्युश्चसंपदे
दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम्
शून्यमंबुरसावह्निस्वयोगान्मोहनीमनुः
ज्यानभोदाहवह्निस्वयोगैः स्यादरुणामनुः
कं नभोदाहसहितं व्याप्तक्ष्मास्वयुतं मनुः
ग्रासो नभोदाहवह्निस्वैर्युक्तः कौलिनीमनुः
वाग्देवतान्तैर्न्यासः स्याद्येन देव्यात्मको भवेत्
नाभावाधारके पादद्वये मूलाग्रकावधि
लोहितां ललितां बाणचापपाशसृणीः करैः
मध्यस्थदेवी त्वेकैव षोडशाकारतः स्थाता
ऋषिः शिवश्छन्द उक्ता देवता ललितादिकाः