उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रितैः स्त्रियम्
क्षीराक्तैरमृताखण्डैर्हेमान्नाशयति ज्वरम्
कदंबैर्वश्यमाप्नोति सर्वं त्रिमधुरप्लुतम्
निंबप्रसूनैर्जुहुयादीप्सितश्रीसमृद्धये
चन्दनागुरुकस्तूरी चन्द्रकुङ्कुमरोचनाः
निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः
हरिद्राचूर्णसंमिश्रैर्लवणैः स्तंभयेज्जगत्
अवतारान्तरं भूयो वर्णयामि निशामय
वतिवह्निप्रियामन्त्रो धूमावत्या गजाक्षरः
बीजेन षड्दीर्घजातियुक्तेन परिकल्पयेत्
विवर्णां चञ्चलां दुष्टां दीर्घां च मलिनांबराम्
कङ्कध्वजरथारूढां प्रलंबितपयोधरम्
प्रवृद्धलोमां तु भृशं कुटिलाकुटिलेक्षणाम्
एवंविधां तु संचिन्त्य नमः स्वाहा फडन्तकम्
अवष्टभ्य शवं शत्रुनाम्नाथ प्रजपेन्मनुम्
उपवासी श्मशाने वा विपिने शून्यमन्दिरे
सहस्रादूर्द्धूतः शत्रुर्ज्वरेण परिगृह्यते
मन्त्राद्या क्षरमालिख्य शत्रूनाम ततः परम्
सर्वं मनुदिक्सहस्रजपाच्छवमृतिर्भवेत्
विरोधिनाम्नाष्टशतं जप्तमुच्चाटनं रिपोः
विरोधिनामसंरुद्धं कृष्णे पक्षे समुच्चरेत्
एवं संक्षेपतः प्रोक्तं अवतारचतुष्टयम्
दुर्गाया जगदंबायाः किं पुनः प्रष्टुमिच्छसि
सर्वासामवताराणां नारदो देवदर्शनः
अवतारकलानां हि पप्रच्छ विनयान्वितः
पज्जगन्मातृमन्त्राणां वैभवं श्रुतवान्मुने
तथा राधावताराणां श्रोतुमिच्छामि वैभवम्
राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान्
सनत्कुमारः प्रोवाच ध्यात्वा राधापदांबुजम्
राधावतारचरितं भजतामिष्टिसिद्धिदम्