मदनवेगा सम्भवा च भुवनपालेन्दुरेखिका
विन्यस्तव्यास्ततो मूले ऽधिष्ठाने मणिपूरके
आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्च कृत्तिका
मूलमन्त्रं पृथङ्न्यस्येन्निजमूर्द्धनि मन्त्रवित्
कण्ठदेशे भ्रवोर्मध्ये बिन्दौ भूयः कला पदोः
उन्नतांसेषु वक्त्रे च ध्रुवमण्डलके शिवे
रौद्रीं प्रशान्तां श्रद्धाख्यां पुनर्माहेश्वरीमथ
प्रमथाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ
शिरोभालहृदाधारेष्वेता बीजत्रयाधिकाः
मातङ्गीं महदाद्यां तां महालक्ष्मीपदादिकाम्
न्यसेत्तेनैव कुर्वीत व्यापकं देशिकोत्तमः
श्यामां शुकोक्तिं शृण्वन्तीं न्यस्तैकाङ्घ्रिशिरोरुहाम्
रक्तांशुकां च कह्लारमालाशोभितचूलिकाम्
अयुतं प्रजपेन्मन्त्रं तद्दशांशं मधूकजैः
त्रिकोणकर्णिकं पद्ममष्टपत्रं प्रकल्पयेत्
चतुरस्रीकृतं बाह्ये कान्त्या दृष्टिमनोहरम्
विभूतिपूर्वाः पूर्वोक्ता मातङ्गीपदपश्चिमाः
वाक्सत्यलक्ष्मी बीजाद्य उक्तः पीठार्चने मनुः
अर्चयेद्विधिनानेन वक्ष्यमाणेन मन्त्रवित्
हृहृल्लेखाः पञ्चपूज्या मध्ये दिक्षु च मन्त्रिणा
अङ्गानि पूजयेत्पश्चाद्यथापूर्वं विधानवित्
दलमध्ये ऽथ संपूज्या अनङ्गकुसुमादिकाः
पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः
अपराङ्गा निषङ्गाद्याः पुष्पास्त्रेषुधनुर्द्धराः
तदग्रेष्वर्चयेद्विद्वानसिताङ्गादिभैरवान्
वामाद्याः कलवीणाभिर्गायन्त्यः श्यामविग्रहाः
मातङ्ग्याद्यामदोन्मत्ता वीणोल्लसितपाणयः
वायव्ये बटुकान् पश्चादीशाने क्षेत्रपं यजेत्
मन्त्रे ऽस्मिन्संधिते मन्त्री साधयेदिष्टमात्मनः
फलौर्बिल्यसमुद्भूतैस्तत्पत्रैर्वा हुताद्भवेत्