अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि
नरनारीनरपतीन्होमेन वशयेत्क्रमात्
जुहुयात्कवितां मन्त्री लभते वत्सरान्तरे
जुहुयाद्वाशयेल्लोकं श्रियं प्राप्नोति वाञ्छिताम्
कस्तूरीकुङ्कुमोपेतं कर्पूरं जुहुयाद्वशी
लाजान्प्रजुहुयान्मन्त्री दधिक्षीरमधुप्लुतान्
पादद्वयं मलयजं पादं कुङ्कुमकेसरम्
विदध्यात्तिलकं भाले यान्पश्येद्यैर्विलोक्यते
कर्पूरकपिचोराणि समभागानि कल्पयेत्
कुङ्कुमं समभागं स्याद्दिग्भातं चन्दनं मतम्
हिमाद्भिः कन्यया पिष्टमेतत्सर्वं सुसाधितम्
वनितामदगर्वाढ्या मदोन्मत्तान्मतन्दजान्
दर्शनादेव वशयेत्तिलकं धारयन्नरः
वाङ्माया कमला तारो नमोन्ते भगवत्यथ
सर्वादिसुखराज्यन्ते सर्वादिसुखरञ्जनी
स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता
सर्वसत्त्ववशङ्करिसर्वलोकं ततः परम्
अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवीगताः
शिरोललाटभ्रूमध्ये तालुकण्ठगलोरसि
स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्षवामयोः
गुणैकद्विचतुः षड्भिर्वसुपर्वनवाष्टभिः
यदुकॢप्तिरियं प्रोक्ता मन्त्रवर्णैर्यथाक्रमम्
वाक्शक्तिलक्ष्मीबीजाद्या मातङ्ग्यन्ताः प्रविन्यसेत्
हृल्लेखां गगनां रक्तां भूयो मन्त्री करालिकाम्
मातङ्ग्यन्ताः षडङ्गानि ततः कुर्वीत साधकः
शिखाष्टादशभिः प्रोक्ता वर्म तावद्भिरक्षरैः
बाणन्यासं ततः कुर्याद्भैरवीप्रोक्तवर्त्मना
पार्स्वकट्योर्नाभिदेशे कटिपार्श्वांशके पुनः
मदनं पुष्पधन्वानं पञ्चमं कुसुमायुधम्
मातङ्ग्यन्तास्ततो न्यस्येत्स्थानेष्वेतेषु मन्त्रवित्