अनङ्गमदना सर्वा मदविभ्रममन्थरा
अक्षस्रक्पुस्तकाभीतिवरदाढ्यकरांबुजाः
ततः कुर्याद्भूषणाख्यं न्यासमुक्तदिशा मुने
सहस्रभानुसंकाशामरुणक्षौमवाससीम्
विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम्
पुष्पैर्भानुसहस्राणि जुहुयाद्बह्मवृक्षजैः
पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम्
इच्छा ज्ञाना क्रिया पश्चात्कामिनी कामदायिनी
वरदाभयधारिण्यः संप्रोक्ता नव शक्तयः
दीर्घवान्यै परा पश्चादपरायौ हसौ युतः
अनेन मनुना दद्यादासनं श्रीगुरुक्रमम्
पञ्चभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम्
तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः
सृणिपाशधरां सौम्यां मदविभ्रमविह्वलाम्
अङ्कुशं प्रणतं दोभ्यां धारयन्तीं समर्चयेत्
इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिताननाम्
दिक्ष्वग्रे च निजैर्मन्त्रैः पूजयेद्बाणदेवताः
अष्टयोनिष्वष्टशक्तीः पूजयेत्सुभगादिकाः
अष्टपत्रेषु संपूज्या यथावत्कुसुमादिभिः
पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम्
एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः
लक्षसंख्यं तदर्द्धं वा प्रत्यहं भोजयेद्द्विजान्
होमान्ते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः
रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः
वाक्सिद्धं लभते मन्त्री पलाशकुसुमैर्हुतैः
ज्ञानं दिव्यमवाप्नोति तेनैव स भवेत्कविः
दूर्वाभघिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम्
कह्लारैः पार्थिवान्पुष्पैस्तद्वधूः कर्णिकारजैः
कोरण्टकुसुमैर्वैंश्यान्वृषलान्पाटलोद्भवैः
मन्त्रमुच्चार्य जुहुयान्मन्त्री मधुरलोलितैः