बालोदितप्रकारेण मूर्तिन्यासमथाचरेत्
न्यसेद्वक्त्रे तत्पुरुषं मकरध्वजमात्मवित्
गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम्
ऊर्द्ध्वंप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान्
सद्यादिपञ्चह्रस्वाद्या बीजमेषां प्रकीर्तितम्
पञ्चबाणांस्ततो न्यस्येन्मन्त्री त्रैलोक्यमोहनान्
क्लींवशीकरणीं वक्त्रे गुह्ये बॢं बीजपूर्विकाम्
संमोहनीं क्रमादेवं बाणन्यासो ऽयमीरितः
नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः
भगसर्पिण्यथ परा भगमालिन्यनन्तरम्
अनङ्गमदना सर्वा मदविभ्रममन्थरा
अक्षस्रक्पुस्तकाभीतिवरदाढ्यकरांबुजाः
ततः कुर्याद्भूषणाख्यं न्यासमुक्तदिशा मुने
सहस्रभानुसंकाशामरुणक्षौमवाससीम्
विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम्
पुष्पैर्भानुसहस्राणि जुहुयाद्बह्मवृक्षजैः
पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम्
इच्छा ज्ञाना क्रिया पश्चात्कामिनी कामदायिनी
वरदाभयधारिण्यः संप्रोक्ता नव शक्तयः
दीर्घवान्यै परा पश्चादपरायौ हसौ युतः
अनेन मनुना दद्यादासनं श्रीगुरुक्रमम्
पञ्चभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम्
तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः
सृणिपाशधरां सौम्यां मदविभ्रमविह्वलाम्
अङ्कुशं प्रणतं दोभ्यां धारयन्तीं समर्चयेत्
इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिताननाम्
दिक्ष्वग्रे च निजैर्मन्त्रैः पूजयेद्बाणदेवताः
अष्टयोनिष्वष्टशक्तीः पूजयेत्सुभगादिकाः
अष्टपत्रेषु संपूज्या यथावत्कुसुमादिभिः
पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम्