महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः
महाभैरवकेन्द्राक्षी त्वसिताङ्गी तु सप्तमी
त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम्
एवं पूजादिभिः सिद्धे मन्त्रे मन्त्री मनोरथान्
श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्च समीहितम्
घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम्
करवीरसुमैः श्वतैर्लक्षसंख्यैर्जुहोति यः
रक्तौ स्तत्संख्यया हुत्वा वशयेन्मन्त्रिणो नृपान्
गोमायुमांसैस्तामेव कवितां पायसांधसा
तिलतण्डुलहोमेन वशयेन्निखिलाञ्जनान्
स्तंभनं माहिषैर्मांसैः पङ्कजैः सघृतैरपि
उन्मत्तकाष्ठदीप्ते ऽग्नौ तत्फलं वायसच्छदैः
विजयं लभते मन्त्री ध्यायन्देवीं जपन्मनुम्
रक्तां वश्ये मृतौ धूम्रां स्तंभने कनकप्रभाम्
गोपनीयः प्रयोगो ऽय प्रोच्यते सर्वसिद्धिदः
स्नात्त्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः
सुन्दरीं यौवनाक्रान्तां नरपञ्चकगामिनीम्
विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम्
भोजयेद्विविधैरन्नैर्ब्राह्मणान्भोजनादिना
नारीमायुः सुखं धर्ममिष्टं च समवाप्नुयात्
मनोरथेषु चान्येषु गच्छेत्तां प्रजपन्मनुम्
षण्मासाभ्यन्तरेमन्त्री कवित्वेन जयेत्कविम्
मायां तारपुटां मन्त्री जपेदष्टोत्तरं शतम्
उदिता छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा
ज्ञानामृतारुणा श्वेताक्रोधिनीन्दुसमन्विता
वाग्भवं कामराजाख्यं शक्तिबीजाह्वयं तथा
ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पङ्क्तिरुदीरिता
नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः
शिरसो हृत्प्रदेशान्तं तार्तीयं विन्यसेत्ततः
मूलाधारे हृदि न्यस्य भूयो बीजत्रयं क्रमात्