पूजितं पीतपुष्पैस्तद्वाचं संस्तंभयेद्द्विषाम्
मार्जितं तद्द्विषां पात्रैर्दिव्यस्तम्भनकृद्भवेत्
क्षिप्तं जले दिव्यकृतं जलस्तंभनकारकम्
शत्रूणां गतिबुद्ध्यादेः स्तंभनो नात्र संशयः
दुर्गायाश्चाभिधास्यामि सर्वलोकोपकारकान्
वज्राद्यं क्षुधिता सूक्ष्मा मृता स्वाग्नीन्दुसंयुता
भैरवो ऽस्य मुनिः सम्राट् छन्दो मन्त्रस्य देवता
आं खड्गाय हृदाख्यातमीं खड्गाय शिरः स्मृतम्
औमङ्कुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुक्
स्वाहान्ताश्चैवमङ्गानि कृत्वा ध्यायेद्थांबिकाम्
छिन्नं स्वकं स्फआरमुखं स्वरक्तं प्रपिबद्गलत्
डाकिनीवर्णिनीसख्यौ दृष्ट्वा मोदभराकुलाम्
पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमैः फलैः
पीठे जयाख्या विजया जिता चापि पराजिता
दिक्षु मध्ये च संपूज्या नव पीठस्य शक्तयः
सिद्धिप्रदे डाकिनीये तारो वज्रः सभौतिकः
तारादिपीठमन्त्रो ऽयं वेदरामाक्षरो मतः
त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः
भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेत्
भूपुरस्य चतुर्द्वार्षु द्वारपालान्यजेदथ
महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः
महाभैरवकेन्द्राक्षी त्वसिताङ्गी तु सप्तमी
त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम्
एवं पूजादिभिः सिद्धे मन्त्रे मन्त्री मनोरथान्
श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्च समीहितम्
घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम्
करवीरसुमैः श्वतैर्लक्षसंख्यैर्जुहोति यः
रक्तौ स्तत्संख्यया हुत्वा वशयेन्मन्त्रिणो नृपान्
गोमायुमांसैस्तामेव कवितां पायसांधसा
तिलतण्डुलहोमेन वशयेन्निखिलाञ्जनान्