अथ लक्ष्म्यवतारो ऽन्यः कीर्त्यते मुनिसत्तम
बगलामुखसर्वान्ते इन्धिकाह्रादिनीयुता
वाचं मुखं पदं स्तंभयान्ते जिह्वापदं वदेत्
तारो ऽग्निसुंदरी मन्त्रो बगलायाः प्रकीर्तितः
देवता नेत्रपञ्चेषुनवपञ्चदिगर्णकैः
स्वर्णासनस्थां हेमाभां स्तंभिनीमिन्दुशेखराम्
एवं ध्यात्वाजपेल्लक्षमयुतं चंपकोद्भवैः
चन्दनागुरुचन्द्राद्यैः पूजार्थं यन्त्रमालिखेत्
मङ्गला स्तंभिनी चैव जृंभिणी मोहिनी तथा
धात्री च कलना कालकर्षिणी भ्रामिकापि च
भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात्
इन्द्रादींश्च ततो बाह्ये निजायुधसमन्वितान्
पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः
पीतां ध्यायन्भगवतीं पयोमध्ये ऽयुतं जपेत्
मधुरत्रितयाक्तैः स्यादाकर्षो लवर्णैर्ध्रुवम्
ताललोणहरिद्राभिर्द्विषां संस्तंभनं भवेत्
श्मशाने पावके हुत्वा नाशयेदचिरादरीन्
गृहधूमं चितावह्नौ हुत्वा प्रोच्चाटयेद्रिपून्
जुहोति सो ऽखिलान् रोगान् शमयेद्दर्शनादपि
ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये
त्रिशतं मन्त्रितं पीतं हन्याद्विषपराभवम्
अलक्तरञ्जिते लक्षं मन्त्रयेन्मनुनामुना
पारदं च शिलां तालं पिष्टं मधुसमन्वितम्
अदृश्यः स्यान्नृणामेष आश्चर्य्यं दृश्यतामिदम्
हरितालनिशाचूर्णैरुन्मत्तुरससंयुतैः
तद्यन्त्रं स्थापितप्राणं पीतसूत्रेण वेष्टयेत्
रचयेदृषभं रम्यं यन्त्रं तन्मध्यतः क्षिपेत्
स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम्
अङ्गारेण चितास्थेन तत्र यन्त्रं समालिखेत्
प्रेतवस्त्रे लिखेद्यन्त्रं अङ्गारेणैव तत्पुनः