तत्र क्लिन्ने प्रचोदान्ते यादित्येषा प्रकीर्तिता
अथ लक्ष्म्यवतारो ऽन्यः कीर्त्यते सिद्धिदो नृणाम्
भगवति माहेश्वरी ङेन्ते ऽन्नपूर्णे दहनाङ्गना
धृतिश्छन्दो ऽन्नपूर्णेशी देवता परिकीर्तिता
मुखनासाक्षिकर्णांसगुदेषु नवसु न्यसेत्
भूमिचन्द्रधरैकाक्षिवेदाब्धियुगबाहुभिः
स्वर्णाभाङ्गां त्रिनयनां वस्त्रालङ्कारशोभिताम्
लक्षं जपो ऽयुतं होमो घृताक्तचरुणा तथा
त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके
अग्न्यादिकोणत्रितये शिववाराहमाधवान्
प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा
वाराहनारायणयोर्मन्त्रौ पूर्वमुदीरयेत्
यजेत्स्वस्वमनुभ्यां तु तावुच्येते मुनीश्वर
नयेममन्नं प्राणान्ते दापयानलसुंदरी
लक्ष्मीष्टौ श्रीपुटो विप्र स्नृतिर्लभनुचन्द्रयुक्
मन्त्रादिस्थचतुर्बीजपूर्विकाः परिपूजयेत्
कमला सुभगा चति ब्राह्म्याद्या अष्टपत्रगाः
प्रीती रतिर्ह्नीः श्रीश्चापि स्वधा स्वाहा दशम्यथ
अमावास्येति संपूज्या मन्त्रेशे प्राणपूर्विका
इत्थं जपादिभिः सिद्धे मन्त्रे ऽस्मिन्धनसंचयैः
अथ लक्ष्म्यवतारो ऽन्यः कीर्त्यते मुनिसत्तम
बगलामुखसर्वान्ते इन्धिकाह्रादिनीयुता
वाचं मुखं पदं स्तंभयान्ते जिह्वापदं वदेत्
तारो ऽग्निसुंदरी मन्त्रो बगलायाः प्रकीर्तितः
देवता नेत्रपञ्चेषुनवपञ्चदिगर्णकैः
स्वर्णासनस्थां हेमाभां स्तंभिनीमिन्दुशेखराम्
एवं ध्यात्वाजपेल्लक्षमयुतं चंपकोद्भवैः
चन्दनागुरुचन्द्राद्यैः पूजार्थं यन्त्रमालिखेत्
मङ्गला स्तंभिनी चैव जृंभिणी मोहिनी तथा
धात्री च कलना कालकर्षिणी भ्रामिकापि च