यो जपेदादिमे बीजे वराहभृगुपावकान्
आदावन्ते च तार्तूयक्रमात्स्वं धूम्रकेतनम्
यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत्
आद्यमाद्यं हि तार्तीयं कामः कामो ऽथ वाग्भवम्
जप्तो ऽयं शतधा शापं बालाया विनिवर्तयेत्
त्रिस्वराश्चेतनं मन्त्री धरः शान्तिरनुग्रहः
तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः
वदयुग्मं सदीर्घांबु स्मृतिवालावनङ्गतौ
क्लिन्ने क्लेदिनि वैकुण्ठो दीर्घं स्वं सद्यगोन्तिमः
तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी
वागन्त्यकामान् प्रजयेदरीणा क्षोभहेतवे
कामान्त्यवाणीबीजानि मुक्तये नियतो जपेत्
दिव्यौघश्चैव सिद्धौघो मानवौघ इति त्रिधा
कामेश्वरस्ततो मोक्षः षष्ठः कामो ऽमृतोंऽतिमः
ईशानाख्यस्तत्पुरुषो ऽघोराख्योवामदेवकः
मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः
प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः
बहिर्मातृकयाऽवेष्ट्य तद्बहिर्भूपुरद्वयम्
पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम्
कामान्ते त्रिपुरा देवी विद्महे कविषं भहिम्
तत्र क्लिन्ने प्रचोदान्ते यादित्येषा प्रकीर्तिता
अथ लक्ष्म्यवतारो ऽन्यः कीर्त्यते सिद्धिदो नृणाम्
भगवति माहेश्वरी ङेन्ते ऽन्नपूर्णे दहनाङ्गना
धृतिश्छन्दो ऽन्नपूर्णेशी देवता परिकीर्तिता
मुखनासाक्षिकर्णांसगुदेषु नवसु न्यसेत्
भूमिचन्द्रधरैकाक्षिवेदाब्धियुगबाहुभिः
स्वर्णाभाङ्गां त्रिनयनां वस्त्रालङ्कारशोभिताम्
लक्षं जपो ऽयुतं होमो घृताक्तचरुणा तथा
त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके
अग्न्यादिकोणत्रितये शिववाराहमाधवान्