प्रेतपद्मासनं ङेंतं नमोन्तः पीठमन्त्रकः
आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः
वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम्
मध्ययोमेर्हहिः पूर्वादिषु चाग्रे स्मरानपि
सुभगाख्या भागा पश्चात्तृतीया भगसर्पिणी
अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः
दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः
मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलान्तकम्
भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरान्तकम्
एकपादं भीमरूपं विमलं हाटकेश्वरम्
तद्बहिर्दिक्षु बटुकं योगिनीं क्षेत्रनायकम्
भूतांश्चेत्थं भजन्बालामीशः स्याद्धनविद्ययोः
नन्द्यावर्तै राजवृक्षैः कुन्दैः पाटलचंपकैः
अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया
ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः
सुरभिक्षीरदध्यक्तांल्लाजान्हुत्वा रुजो जयेत्
चन्दनं केशरं मांसीं क्रमाद्भागैनिंयोजयेत्
श्मशाने कृष्णभूतस्य निशि नीहारपाथसा
विदद्ध्यात्तिलकं तेन दर्शनाद्वशयेज्जनान्
प्रयोजनानां सिद्ध्यै तु देव्याः शापं निवर्त्य च
यो जपेदादिमे बीजे वराहभृगुपावकान्
आदावन्ते च तार्तूयक्रमात्स्वं धूम्रकेतनम्
यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत्
आद्यमाद्यं हि तार्तीयं कामः कामो ऽथ वाग्भवम्
जप्तो ऽयं शतधा शापं बालाया विनिवर्तयेत्
त्रिस्वराश्चेतनं मन्त्री धरः शान्तिरनुग्रहः
तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः
वदयुग्मं सदीर्घांबु स्मृतिवालावनङ्गतौ
क्लिन्ने क्लेदिनि वैकुण्ठो दीर्घं स्वं सद्यगोन्तिमः
तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी