कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम्
स्त्रीजितस्यातिदुष्टस्य दत्तं भवित निष्फलम्
चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम्
सत्कर्मनिरतायापि देयं यत्नेन नारद
याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम्
यद्दानं दीयते पात्रे तत्काम्यं मध्यमं स्मृतम्
क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम्
उत्तमं हरिप्रीत्यर्थं प्राहुर्वेदविदां वराः
दानभोगविनाशाश्च रायः स्युर्गतयस्त्रिधा
धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत्
यत्र मूलफलैर्वृक्षाः परकार्यं प्रकुर्वते
परकार्यं न ये मर्त्याः कायेनापि धनेन वा
अत्रेतिहासं वक्ष्यामि शृणु नारद तत्त्वतः
गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनम्
आसीद्भगीरथो राजा सगरान्वयसंभवः
सर्वधर्मरतो नित्यं सत्यसंधः प्रतापवान्
प्रालेयाद्रिसमो धैर्ये धर्मे धर्मसमो नृपः
सर्वसंपत्समायुक्तः सर्वानन्दकरो मुने
पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सधीः
धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः
शास्त्रदृष्टेन विधिना धर्मः प्री उवाच तम्
धर्मराजो ऽथ कीर्तिं ते श्रुत्वा त्वां द्रष्टुमागतः
द्रष्टुमिच्छन्ति विबुधारतवो त्कुष्टगुणप्रियाः
वसन्ति तत्र नियतं गुणाःसन्तश्च देवताः
सर्वभूतहितत्वादि मादृशामपि दुर्लभम्
प्रोवाच विनयाविष्टः संहृष्टः श्लक्ष्णया गितं
कृपया परयाविष्टो यत्पृच्छामि वदस्व तत्
कियत्यो यातनाः प्रोक्ताः केषां ताः परिकीर्तिताः
तत्सर्वं मे महाभाग विस्तराद्वक्तुमर्हसि
धर्माधर्मान्प्रवक्ष्यामितत्त्वतः शृणु भक्तितः