ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्दः प्रकीर्तितम्
नाभेरापादमाद्यं तु नाभ्यन्तं हृदयात्परम्
आद्यं वामकरे दक्षकरे तदुभयोः परम्
नव योन्पाभिधं न्यासे नवकृत्वो मनुं न्यसेत्
नेत्रयोर्नासिकायां च स्कन्धयोरुदरे तथा
पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः
वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां हृदि
पुनर्वागकात्ममाद्यास्तिस्रएव च विन्यसेत्
मूर्ध्निं वक्त्रे हृदि न्यस्येद्गुह्ये चरणयोरपि
मायाकामौ च वाग्लक्ष्मी कामेशी पञ्चबीजकम्
कामदेवः स्मरः पञ्च कीर्तितान्याससिद्धिदाः
द्राविण्याद्याः क्रमान्न्यस्येद्वाणेशीबीजपूर्वकः
द्राविणी क्षोभिणी वशीकरण्याङ्कर्षणी तथा
तार्तीयवाग्मध्यगेन कामेन स्यात्षडङ्गकम्
ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनम्
लक्षत्रयं जपेन्मन्त्रं दशांशं किंशुकोद्भवैः
नवयोन्यात्मकं यन्त्रं बहिरष्टदलावृतम्
दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम्
इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी
पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत्
प्रेतपद्मासनं ङेंतं नमोन्तः पीठमन्त्रकः
आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः
वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम्
मध्ययोमेर्हहिः पूर्वादिषु चाग्रे स्मरानपि
सुभगाख्या भागा पश्चात्तृतीया भगसर्पिणी
अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः
दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः
मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलान्तकम्
भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरान्तकम्
एकपादं भीमरूपं विमलं हाटकेश्वरम्