यं यं पश्यति तस्यासौ दासवज्जायते क्षणात्
तेन मत्रेण संवेष्ट्य निबद्धं रक्ततन्तुभिः
उच्चाटयति सप्ताहात्सकुण्टुबान्विरोधिनः
रविवारे निशीथिन्यां सहस्रमभिमन्त्रयेत्
क्षेत्रे क्षिप्तं सस्यहान्योजवहृत्तुरमालयेत्
बाह्ये ऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम्
पट्टसूत्रेण सन्नद्धं शिशुकण्ठगतं ध्रुवम्
नृणां दक्षिणबाहुस्थं निर्धनानां धनप्रदम्
ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम्
अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान्
ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्दः प्रकीर्तितम्
नाभेरापादमाद्यं तु नाभ्यन्तं हृदयात्परम्
आद्यं वामकरे दक्षकरे तदुभयोः परम्
नव योन्पाभिधं न्यासे नवकृत्वो मनुं न्यसेत्
नेत्रयोर्नासिकायां च स्कन्धयोरुदरे तथा
पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः
वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां हृदि
पुनर्वागकात्ममाद्यास्तिस्रएव च विन्यसेत्
मूर्ध्निं वक्त्रे हृदि न्यस्येद्गुह्ये चरणयोरपि
मायाकामौ च वाग्लक्ष्मी कामेशी पञ्चबीजकम्
कामदेवः स्मरः पञ्च कीर्तितान्याससिद्धिदाः
द्राविण्याद्याः क्रमान्न्यस्येद्वाणेशीबीजपूर्वकः
द्राविणी क्षोभिणी वशीकरण्याङ्कर्षणी तथा
तार्तीयवाग्मध्यगेन कामेन स्यात्षडङ्गकम्
ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनम्
लक्षत्रयं जपेन्मन्त्रं दशांशं किंशुकोद्भवैः
नवयोन्यात्मकं यन्त्रं बहिरष्टदलावृतम्
दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम्
इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी
पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत्