तर्जनूमध्यमानामाकनिष्ठाभिर्महेश्वरीम्
खंरेफमनुबिन्द्वाढ्यां भृगुमन्विन्दुयुक्तया
ततस्तेनार्धतोयेन प्रोक्षेत्पूजनसाधनम्
विधानमर्घे संप्रोक्तं सर्वसिद्धिप्रदायकम्
धरागृहावृते रम्ये देवीं रम्योपचारकैः
पाशाङ्कुशौ कपालं च त्रिशूलं दधतं करैः
कपालशूले हस्ताभ्यां दधतं सर्पभूषणम्
असिशूलकपालानि डमरुं दधतं करैः
कपालं डमरुं पाशं लिङ्गं शंबिभ्रतीं करैः
अक्षोभ्यं प्रयजेन्मूर्ध्नि देव्या मन्त्रऋषिं शुभम्
अक्षोभ्यपूजने मन्त्रः षट्कोगकम्
शङ्खं पाण्डुरसंज्ञं च दिग्दलेषु प्रपूजयेत्
विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये
व्रजपुष्पं प्रतीच्छाग्निप्रियान्ताः प्रणवादिकाः
भूधरश्च चतुर्द्वार्षु पद्मान्तकयमान्तकौ
शक्रादींश्चैव वज्रादीन्प्रजपेत्तदनन्तरम्
पुत्रान्पौत्राञ्छुभां कीर्तिं लभते जनवश्यताम्
महोप्रतारे देवासः सनेत्रो गदियुग्मकम्
अभ्रगुमम जाड्यं च छेदयद्वितयं रमा
अनेन नित्यं पूजतिऽन्वहं देव्यै बलिं हरेत्
जातमात्रस्य बालस्य दिवसत्रितयादधः
सुवर्ण कृतया यद्वा मन्त्री धवलदूर्वया
तथापरैरजेयो ऽपि भूपसंघैर्द्धनार्चितः
निर्माय कीलकं तेन तैलमध्वमृतैर्लिखेत्
निखाय तदलं कुण्डे चतुरस्रे समेखले
सहस्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम्
बलिं मन्त्रेण विधिवद्बलिमन्त्रः प्रकाश्यते
अत्रिर्विषभगारूढो वदत्पद्मावतीपदम्
ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत्
निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः