यक्षाधिपतये तन्द्रीसोपनीतं बलिं ततः
दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे
ध्रुवो वज्रोदके वर्म फट्सप्तार्णो जलग्रहे
तारो मायाः भृगुः कर्णोविशुद्धं धर्मवर्मतः
कल्पान्तनयनस्वाहा मन्त्र आचमने मतः
खरिविद्यायुग्रिजश्व सर्ववान्ते बको ऽब्जवान्
त्रयोविंशतिवर्णात्मा शिखाया बन्धने मनुः
नवार्णेनामुना मन्त्री कुर्याद्भूमिविशोधनम्
हुं फट् स्वाहा गुणेन्द्वर्णो मनुर्विघ्ननिवारणम्
तदुत्थेनाग्निना देहं दहेत्साद्धस्वपाप्मना
पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि
तदुत्थसुधयादे हं स्वयं वै देवतानिभम्
तारो ऽनन्तो भगुः कर्णो पद्मनाभयुतो बली
अमुना द्वादशार्णेन रचयेन्मण्डलं शुभम्
सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः
तारः पाशः परा स्वाहा पञ्चार्णश्चित्तशोधने
सेंदुभ्यां मासतो माया भुवं संसृज्य भूगृहम्
वह्निमण्डलमभ्यर्च्य महाशङ्खं निधापयेत्
प्रक्षालितं भृगुर्दण्डी त्रिमूर्तीन्तुयुतं पठेत्
दीर्घत्रयान्विता माया काली सृष्टिः सदीर्घसः
एकाधशार्णः प्रथमो महाशङ्खार्चने मनुः
तारिण्यन्ते कपालाय नमोन्तो द्वादशाक्षरः
लोकपालाय हृदयं तृतीयो ऽयं शिवाक्षरः
पालाय सर्वाधाराय सर्वः सर्वोद्भवस्तथा
रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा
तुर्यो रसेषु वर्णो ऽयं महाशङ्खप्रपूजने
प्रपूरयेत्सुधाबुद्ध्या गन्धपुष्पाक्षतादिभिः
वाक्सत्यपद्मागगने रेफआनुग्रहबिन्दुयुक्
अष्टकृत्वो ऽमुना मन्त्री मन्त्रयेत्प्रयतो जलम्
तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिन्तयेत्