स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम्
नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम्
अयाज्ययाजकस्यापि दत्तं भवति निष्फलम्
धर्मविक्रयिणो विप्र दत्तं भवति निष्फलम्
परोपतापिनश्चापि दत्तं भवति निष्फलम्
धावको वा भवेत्तेषां दत्तं भवति निष्फलम्
अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम्
पैंश्वलान्नभुजश्चापि दत्तं भवति निष्फलम्
दुष्प्रतिग्रहदग्धस्य दत्तं भवति निष्फलम्
सध्याभोजिन एवापिदत्तं भवति निष्फलम्
कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम्
स्त्रीजितस्यातिदुष्टस्य दत्तं भवित निष्फलम्
चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम्
सत्कर्मनिरतायापि देयं यत्नेन नारद
याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम्
यद्दानं दीयते पात्रे तत्काम्यं मध्यमं स्मृतम्
क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम्
उत्तमं हरिप्रीत्यर्थं प्राहुर्वेदविदां वराः
दानभोगविनाशाश्च रायः स्युर्गतयस्त्रिधा
धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत्
यत्र मूलफलैर्वृक्षाः परकार्यं प्रकुर्वते
परकार्यं न ये मर्त्याः कायेनापि धनेन वा
अत्रेतिहासं वक्ष्यामि शृणु नारद तत्त्वतः
गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनम्
आसीद्भगीरथो राजा सगरान्वयसंभवः
सर्वधर्मरतो नित्यं सत्यसंधः प्रतापवान्
प्रालेयाद्रिसमो धैर्ये धर्मे धर्मसमो नृपः
सर्वसंपत्समायुक्तः सर्वानन्दकरो मुने
पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सधीः
धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः