ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम्
तत्फलं भुज्यते चैव भोगभूमिधनक्रमात्
तत्फलं क्षयि विप्रेन्द्र भुज्यते ऽन्यत्रजन्तुभिः
संचितं सुमहत्पुण्यमक्षय्यममलं शुभम्
कदा पुण्येन महता यास्याम परमं पदम्
जगदीशंसमेष्यामो नित्यानन्दमनामयम्
न तस्य सदृशो ऽन्यो ऽस्ति त्रिषु लोकेषु नारदा
शुक्षषुर्वापि महतः सवेद्यो दिविजैरपि
भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम्
अहिंसादिपरः शन्तिः सो ऽपि वन्द्यः सुरोत्तमैः
सर्वभूतहितो नित्यं सो ऽभ्यर्च्यो दिविजैः स्मृतः
अनसूयुःशुचिर्दक्षो यः सो ऽप्यर्च्यःसुरेश्वरैः
वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः
सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा
अपरिग्रहशी लश्च देवपूज्यः स नारद
परोपकारनिरतः पूजनीयः सुरासुरैः
सत्संगे ऽपि च यस्यास्ति सो ऽपि वन्द्यः सुरोत्तमैः
करोति भारते वर्षे संबन्धो ऽस्माभिरेव च
स एव दुष्कृतिर्मूढो नास्त्यन्यो ऽस्मादचेतनः
पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः
स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने
स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर
कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति
ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः
देवानां दुर्लभं वापि सर्वकर्मफलप्रदम्
न तस्य सदृशं कश्चित्रिषु विद्यते
नररुपपरिच्छन्नः स हरिर्नात्र संशयः
निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम्
अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः
फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम्