उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः
स्त्रात्वा संतर्त्य देवर्षिपितन्विगतकल्मषाः
कथां प्रचक्रुर्विविधाः नारायण गुणाश्रिताः
चकारनारदः प्रश्नं नानाख्यानकयान्तरे
यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः
पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः
गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः
ज्ञानस्य लक्षण ब्रूत तपसश्चापि मानदाः
परावर निवासाय सगुणायागुणाय च
योगीश्वराय योगाय योगगम्याय विष्णवे
ज्ञाचेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसंपदे
ध्यानेश्वराय सुधियेध्येयध्यातृस्वरुपिणे
यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतो ऽस्मि
कल्पान्तरुद्राख्यतमुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि
विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये
संकल्पपूर्वात्मकदेहहेतुस्तंस्तमेव नित्यं शरणं प्रपद्ये
देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतो ऽस्मि
विदार्यसंराक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं मनामि
जगद्विधातारमकर्मकं च परं पुराणं पुरुषम नतो ऽस्मि
स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मा नमहं भजामि
यस्मिन्नेष्यति पश्चाच्च तमस्ति शरणं गतः
असङ्गी परिपूर्णश्च तमस्मि शरणं गतः
न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः
सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः
देवतानां हितार्थाय तं कूर्मं शरणं गतः
तस्थाविदं जगत्कृत्स्नं वाराहं तं नतो ऽस्म्यहम्
विदार्य हतवान्यो हि तं नृसिंहं नतो ऽस्म्यहम्
आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतो ऽजितम्
क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतो ऽस्मि तम्
हतवान्राक्षसानीकं रामचन्द्रं नतो ऽस्म्यहम्