पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् पुरा मलये न कथितं तीर्थश्राद्धानुकीर्तनम्
शृणोति यः पठेद्वापि श्रीमान्संजायते नरः
श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः सर्वपापोपशान्त्यर्थम् अलक्ष्मीनाशनं परम्
इदं पवित्रं यशसो निधानम् इदं महापापहरं च पुंसाम् ब्रह्मार्करुद्रैरपि पूजितं च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः
सोमः पितॄणामधिपः कथं शास्त्रविशारद तद्वंश्या ये च राजानो बभूवुः कीर्तिवर्धनाः
आदिष्टो ब्रह्मणा पूर्वम् अत्रिः सर्गविधौ पुरा अनुत्तमं नाम तपः सृष्ट्यर्थं तप्तवान्प्रभुः
यदानन्दकरं ब्रह्म जगत्क्लेशविनाशनम् ब्रह्मविष्ण्वर्करुद्राणाम् अभ्यन्तरमतीन्द्रियम्
शान्तिकृच् छान्तमनसस् तदन्तर्नयने स्थितम् माहात्म्यात्तपसा विप्राः परमानन्दकारकम्
यस्मादुमापतिः सार्धम् उमया तमधिष्ठितः तं दृष्ट्वा चाष्टमांशेन तस्मात्सोमो ऽभवच्छिशुः
अधः सुस्राव नेत्राभ्यां धाम तच्चाम्बुसम्भवम् दीपयन्विश्वमखिलं ज्योत्स्नया सचराचरम्
तद्दिशो जगृहुर्धाम स्त्रीरूपेण सुतेच्छया गर्भो भूत्वोदरे तासाम् आस्थितो ऽब्दशतत्रयम्
आशास्तं मुमुचुर्गर्भम् अशक्ता धारणे ततः समादायाथ तं गर्भम् एकीकृत्य चतुर्मुखः
युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम् स्यन्दने ऽथ सहस्राश्वे वेदशक्तिमये प्रभुः
आरोप्य लोकमनयद् आत्मीयं स पितामह तत्र ब्रह्मर्षिभिः प्रोक्तम् अस्मत्स्वामी भवत्वयम्
ऋषिभिर्देवगन्धर्वैर् ओषधीभिस्तथैव च तुष्टुवुः सोमदेवत्यैर् ब्रह्माद्या मन्त्रसंग्रहैः
स्तूयमानस्य तस्याभूद् अधिको धामसम्भवः तेजोवितानादभवद् भुवि दिव्यौषधीगणः
तद्दीप्तिरधिका तस्माद् रात्रौ भवति सर्वदा तेनौषधीशः सोमो ऽभूद् द्विजेशश्चापि गद्यते
वेदधामरसं चापि यदिदं चन्द्रमण्डलम् क्षीयते वर्धते चैव शुक्ले कृष्णे च सर्वदा
विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ रूपलावण्यसंयुक्तास् तस्मै कन्याः सुवर्चसः
ततः पद्मसहस्राणां सहस्राणि दशैव तु तपश्चचार शीतांशुर् विष्णुध्यानैकतत्परः
ततस्तुष्टस्तु भगवांस् तस्मै नारायणो हरिः वरं वृणीष्व प्रोवाच परमात्मा जनार्दनः
ततो वव्रे वरान्सोमः शक्रलोकं जयाम्यहम् प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे
राजसूये सुरगणा ब्रह्माद्याः सन्तु मे द्विजाः रक्षःपालः शिवो ऽस्माकम् आस्तां शूलधरो हरः
तथेत्युक्तः स आजह्रे राजसूयं तु विष्णुना होतात्रिर् भृगुरध्वर्युर् उद्गाताभूच्चतुर्मुखः
ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम् सदस्याः सनकाद्यास्तु राजसूयविधौ स्मृताः
चमसाध्वर्यवस्तत्र विश्वे देवा दशैव तु त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादितम्
ततः समाप्ते ऽवभृथे तद्रूपालोकनेच्छवः कामबाणाभितप्ताङ्ग्यो नव देव्यः सिषेविरे
लक्ष्मीर्नारायणं त्यक्त्वा सिनीवाली च कर्दमम् द्युतिर्विभावसुं तद्वत् तुष्टिर्धातारमव्ययम्
प्रभा प्रभाकरं त्यक्त्वा हविष्मन्तं कुहूः स्वयम् कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम्
धृतिस् त्यक्त्वा पीतं नन्दिं सोममेवाभजंस्तदा स्वकीया इव सोमो ऽपि कामयामास तास्तदा