तीर्थं तु पुष्करं नाम शालग्रामं तथैव च सोमपानं च विख्यातं यत्र वैश्वानरालयम्
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च मलंदरा नदी पुण्या कौशिकी चन्द्रिका तथा
वैदर्भा वाथ वैरा च पयोष्णी प्राङ्मुखा परा कावेरी चोत्तरा पुण्या तथा जालंधरो गिरिः
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च
विन्ध्ययोगश्च गङ्गायास् तथा नदीतटं शुभम् कुब्जाभ्रं तु तथा तीर्थम् उर्वशीपुलिनं तथा
संसारमोचनं तीर्थं तथैव ऋणमोचनम् एतेषु पितृतीर्थेषु श्राद्धम् आनन्त्यमश्नुते
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च तथा वसिष्ठतीर्थं नु हारीतं तु ततः परम्
ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च
घण्टेश्वरं बिल्वकं च नीलपर्वतमेव च तथा च धरणीतीर्थं रामतीर्थं तथैव च
अश्वतीर्थं च विख्यातम् अनन्तं श्राद्धदानयोः तीर्थं वेदशिरो नाम तथैवौघवती नदी
तीर्थं वसुप्रदं नाम छागलाण्डं तथैव च एतेषु श्राद्धदातारः प्रयान्ति परमं पदम्
तथाच बदरीतीर्थं गणतीर्थं तथैव च जयन्तं विजयं चैव शक्रतीर्थं तथैव च
श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा तथैव शारदातीर्थं भद्रकालेश्वरं तथा
वैकुण्ठतीर्थं च परं भीमेश्वरमथापि वा एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम्
तीर्थं मातृगृहं नाम करवीरपुरं तथा कुशेशयं च विख्यातं गौरीशिखरमेव च
नकुलेशस्य तीर्थं च कर्दमालं तथैव च दिण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा
सप्तगोदावरीतीर्थं सर्वतीर्थेश्वरेश्वरम् तत्र श्राद्धं प्रदातव्यम् अनन्तफलमीप्सुभिः
एष तूद्देशतः प्रोक्तस् तीर्थानां संग्रहो मया वागीशो ऽपि न शक्नोति विस्तरात् किम् उ मानुषः
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः वर्णाश्रमाणां गेहे ऽपि तीर्थं तु समुदाहृतम्
एतत्तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं समाचरेत्
प्रातःकालो मुहूर्तांस् त्रीन् संगवस् तावदेव तु मध्याह्नस्त्रिमुहूर्तः स्याद् अपराह्णस्ततः परम्
सायाह्नस्त्रिमुहूर्तः स्याच् छ्राद्धं तत्र न कारयेत् राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु
अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः
मध्याह्ने सर्वदा यस्मान् मन्दीभवति भास्करः तस्मादनन्तफलदस् तदारम्भो विशिष्यते
मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः
पापं कुत्सितमित्याहुस् तस्य संतापकारिणः अष्टाव् एते यतस्तस्मात् कुतपा इति विश्रुताः
ऊर्ध्वं मुहूर्तात्कुतपाद् यन्मुहूर्तचतुष्टयम् मुहूर्तपञ्चकं चैतत् स्वधाभवनमिष्यते
विष्णोर् देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा श्राद्धस्य रक्षणायालम् एतत्प्राहुर्दिवौकसः
तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते
श्राद्धसाधनकाले तु पाणिनैकेन दीयते तर्पणं तूभयेनैव विधिरेष सदा स्मृतः