तथा सामलनाथश्च महाशालनदी तथा चक्रवाकं चर्मकोटं तथा जन्मेश्वरं महत्
अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् श्रीशैलं शांकरं तीर्थं नारसिंहमतः परम्
महेन्द्रं च तथा पुण्यम् अथ श्रीरङ्गसंज्ञितम् एतेष्वपि सदा श्राद्धम् अनन्तफलदं स्मृतम्
दर्शनादपि चैतानि सद्यः पापहराणि वै तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित्
भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी नदी गोदावरी नाम त्रिसंध्या तीर्थमुत्तमम्
तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम् यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः
श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत् स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः
श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम् तथा मत्स्यनदी पुण्या शिवधारं तथैव च
भद्रतीर्थं च विख्यातं पम्पातीर्थं च शाश्वतम् पुण्यं रामेश्वरं तद्वद् एलापुरमलं पुरम्
अङ्गभूतं च विख्यातम् आमर्दकम् अलम्भुषम् आम्रातकेश्वरं तद्वद् एकाम्भकमतः परम्
गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम् सहस्राक्षं हिरण्याक्षं तथा च कदली नदी
रामाधिवासस्तत्रापि तथा सौमित्रिसंगमः इन्द्रकीलं महानादं तथा च प्रियमेलकम्
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु एतेषु सर्वदेवानां सांनिध्यं दृश्यते यतः
दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम् बाहुदा च नदीपुण्या तथा सिद्धवनं शुभम्
तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्
तथैव पितृतीर्थं तु यत्र गोदावरी नदी युता लिङ्गसहस्रेण सर्वान्तरजलावहा
जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम् प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी
तत्तीर्थं हव्यकव्यानाम् अप्सरोयुगसंज्ञितम् श्राद्धाग्निकार्यदानेषु तथा कोटिशताधिकम्
तथा सहस्रलिङ्गं च राघवेश्वरमुत्तमम् सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा
निहत्य नमुचिं शक्रस् तपसा स्वर्गमाप्तवान् तत्र दत्तं नरैः श्राद्धम् अनन्तफलदं भवेत्
तीर्थं तु पुष्करं नाम शालग्रामं तथैव च सोमपानं च विख्यातं यत्र वैश्वानरालयम्
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च मलंदरा नदी पुण्या कौशिकी चन्द्रिका तथा
वैदर्भा वाथ वैरा च पयोष्णी प्राङ्मुखा परा कावेरी चोत्तरा पुण्या तथा जालंधरो गिरिः
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च
विन्ध्ययोगश्च गङ्गायास् तथा नदीतटं शुभम् कुब्जाभ्रं तु तथा तीर्थम् उर्वशीपुलिनं तथा
संसारमोचनं तीर्थं तथैव ऋणमोचनम् एतेषु पितृतीर्थेषु श्राद्धम् आनन्त्यमश्नुते
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च तथा वसिष्ठतीर्थं नु हारीतं तु ततः परम्
ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च
घण्टेश्वरं बिल्वकं च नीलपर्वतमेव च तथा च धरणीतीर्थं रामतीर्थं तथैव च
अश्वतीर्थं च विख्यातम् अनन्तं श्राद्धदानयोः तीर्थं वेदशिरो नाम तथैवौघवती नदी