यमुना देविका काली चन्द्रभागा दृषद्वती नदी वेणुमती पुण्या परा वेत्रवती तथा
पितॄणां वल्लभा ह्य् एताः श्राद्धे कोटिगुणा मताः जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते
अद्यापि पितृतीर्थं तत् सर्वकामफलप्रदम् नीलकुण्डमिति ख्यातं पितृतीर्थं द्विजोत्तमाः
वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम् भद्रेश्वरं विष्णुपदं नर्मदाद्वारमेव च
गयापिण्डप्रदानेन समान्याहुर्महर्षयः एतानि पितृतीर्थानि सर्वपापहराणि च
स्मरणादपि लोकानां किम् उ श्राद्धकृतां नृणाम् ओंकारं पितृतीर्थं च कावेरी कपिलोदकम्
सम्भेदश् चण्डवेगायास् तथैवामरकण्टकम् कुरुक्षेत्राच्छतगुणं तस्मिन्स्नानादिकं भवेत्
शुक्रतीर्थं च विख्यातं तीर्थं सोमेश्वरं परम् सर्वव्याधिहरं पुण्यं शतकोटिफलाधिकम्
श्राद्धे दाने तथा होमे स्वाध्याये जलसंनिधौ कायावरोहणं नाम तथा चर्मण्वती नदी
गोमती वरणा तद्वत् तीर्थमौशनसं परम् भैरवं भृगुतुङ्गं च गौरीतीर्थमनुत्तमम्
तीर्थं वैनायकं नाम भद्रेश्वरमतः परम् तथा पापहरं नाम पुण्याथ तपती नदी
मूलतापी पयोष्णी च पयोष्णीसंगमस्तथा महाबोधिः पाटला च नागतीर्थमवन्तिका
तथा वेणा नदी पुण्या महाशालं तथैव च महारुद्रं महालिङ्गं दशार्णा च नदी शुभा
शतरुद्रा शताह्वा च तथा विश्वपदं परम् अङ्गारवाहिका तद्वन् नदौ तौ शोणघर्घरौ
कालिका च नदी पुण्या वितस्ता च नदी तथा एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः
श्राद्धमेतेषु यद्दत्तं तदनन्तफलं स्मृतम् द्रोणी वाटनदी धारा सरित्क्षीरनदी तथा
गोकर्णं गजकर्णं च तथा च पुरुषोत्तमः द्वारका कृष्णतीर्थं च तथार्बुदसरस्वती
नदी मणिमती नाम तथा च गिरिकर्णिका धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते तीर्थं मेघकरं नाम स्वयमेव जनार्दनः
यत्र शार्ङ्गधरो विष्णुर् मेखलायामवस्थितः तथा मन्दोदरीतीर्थं तीर्थं चम्पा नदी शुभा
तथा सामलनाथश्च महाशालनदी तथा चक्रवाकं चर्मकोटं तथा जन्मेश्वरं महत्
अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् श्रीशैलं शांकरं तीर्थं नारसिंहमतः परम्
महेन्द्रं च तथा पुण्यम् अथ श्रीरङ्गसंज्ञितम् एतेष्वपि सदा श्राद्धम् अनन्तफलदं स्मृतम्
दर्शनादपि चैतानि सद्यः पापहराणि वै तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित्
भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी नदी गोदावरी नाम त्रिसंध्या तीर्थमुत्तमम्
तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम् यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः
श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत् स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः
श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम् तथा मत्स्यनदी पुण्या शिवधारं तथैव च
भद्रतीर्थं च विख्यातं पम्पातीर्थं च शाश्वतम् पुण्यं रामेश्वरं तद्वद् एलापुरमलं पुरम्
अङ्गभूतं च विख्यातम् आमर्दकम् अलम्भुषम् आम्रातकेश्वरं तद्वद् एकाम्भकमतः परम्