मन एकादशं तेषां कर्मबुद्धिगुणान्वितम् इन्द्रियावयवाः सूक्ष्मास् तस्य मूर्तिं मनीषिणः
श्रयन्ति यस्मात् तन्मात्राः शरीरं तेन संस्मृतम् शरीरयोगाज् जीवो ऽपि शरीरी गद्यते बुधैः
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया आकाशं शब्दतन्मात्राद् अभूच् छब्दगुणात्मकम्
आकाशविकृतेर् वायुः शब्दस्पर्शगुणो ऽभवत् वायोश् च स्पर्शतन्मात्रात् तेजश् चाविर् अभूत् ततः
त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत् तेजोविकाराद् अभवद् वारि राजंश् चतुर्गुणम्
रसतन्मात्रसंभूतं प्रायो रसगुणात्मकम् भूमिस् तु गन्धतन्मात्राद् अभूत् पञ्चगुणान्विता
प्रायो गन्धगुणा सा तु बुद्धिर् एषा गरीयसी एभिः संपादितं भुङ्क्ते पुरुषः पञ्चविंशकः
ईश्वरेच्छावशः सो ऽपि जीवात्मा कथ्यते बुधैः एवं षड्विंशकं प्रोक्तं शरीरम् इह मानवे
सांख्यं संख्यात्मकत्वाच् च कपिलादिभिर् उच्यते एतत् तत्त्वात्मकं कृत्वा जगद् वेधा अजीजनत्
सावित्रीं लोकसृष्ट्यर्थे हृदि कृत्वा समास्थितः ततः संजपतस् तस्य भित्वा देहम् अकल्मषम्
स्त्रीरूपम् अर्धम् अकरोद् अर्धं पुरुषरूपवत् शतरूपा च सा ख्याता सावित्री च निगद्यते
सरस्वत्य् अथ गायत्री ब्रह्माणी च परन्तप ततः स्वदेहसंभूताम् आत्मजाम् इत्य् अकल्पयत्
दृष्ट्वा तां व्यथितस् तावत् कामबाणार्दितो विभुः अहो रूपम् अहो रूपम् इति चाह प्रजापतिः
ततो वासिष्ठप्रमुखा भगिनीम् इति चुक्रुशुः ब्रह्मा न किंचिद् ददृशे तन्मुखालोकनाद् ऋते
अहो रूपम् अहो रूपम् इति प्राह पुनः पुनः ततः प्रणामनम्रां तां पुनर् एवाभ्यलोकयत्
अथ प्रदक्षिणं चक्रे सा पितुर् वरवर्णिनी पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया
आविर्भूतं तत्रो वक्त्रं दक्षिणं पाण्डुगण्डवत् विस्मयस्फुरदोष्ठं च पाश्चात्यम् उदगात् ततः
चतुर्थम् अभवत् पश्चाद् वामं कामशरातुरम् ततो ऽन्यद् अभवत् तस्य कामातुरतया तथा
उत्पतन्त्यास् तदाकारा आलोकनकुतूहलात् सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम्
तत् सर्वं नाशम् अगमत् स्वसुतोपगमेच्छया तेनोर्ध्वं वक्त्रम् अभवत् पञ्चमं तस्य धीमतः आविर्भवज्जटाभिश् च तद् वक्त्रं चावृणोत् प्रभुः
ततस् तान् अब्रवीद् ब्रह्मा पुत्रान् आत्मसमुद्भवान् प्रजाः सृजध्वम् अभितः सदेवासुरमानुषीः
एवम् उक्तास् ततः सर्वे ससृजुर् विविधाः प्रजाः गतेषु तेषु सृष्ट्यर्थं प्रणामावनताम् इमाम्
उपयेमे स विश्वात्मा शतरूपाम् अनिन्दिताम् संबभूव तया सार्धम् अतिकामातुरो विभुः सलज्जां चकमे देवः कमलोदरमन्दिरे
यावद् अब्दशतं दिव्यं यथान्यः प्राकृतो जनः ततःकालेन महता तस्याः पुत्रो ऽभवन् मनुः
स्वायंभुवो इति ख्यातः स विराड् इति नः श्रुतम् तद्रूपगुणसामान्याद् अधिपुरुष उच्यते
वैराजा यत्र ते जाता बहवः शंसितव्रताः स्वायंभुवा महाभागाः सप्त सप्त तथापरे
स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः औत्तमिप्रमुखास् तद्वद् येसां त्वं सप्तमो ऽधुना
अहो कष्टतरं चैतद् अङ्गजागमनं विभो कथं न दोषमगमत् कर्मणानेन पद्मभूः
परस्परं च सम्बन्धः सगोत्राणाम् अभूत् कथम् वैवाहिकस्तत्सुतानां छिन्द्धि मे संशयं विभो
दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा अतीन्द्रियेन्द्रिया तद्वद् अतीन्द्रियशरीरिका