कण्डरीको ऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः भूत्वा जातिस्मरौ शोकात् पतिताव् अग्रतस्तदा
हा वयं योगविभ्रष्टाः कामतः कर्मबन्धनाः एवं विलप्य बहुशस् त्रयस्ते योगपारगाः
विस्मयाच्छ्राद्धमाहात्म्यम् अभिनन्द्य पुनः पुनः ततस्तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्
विसृज्य ब्राह्मणं तं च वृद्धं धनमुदान्वितम् आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्
विष्वक्सेनाभिधानं तु राजा राज्ये ऽभ्यषेचयत् मानसे मिलिताः सर्वे ततस्ते योगिनां वराः
ब्रह्मदत्तादयस्तस्मिन् पितृसक्ता विमत्सराः संनतिश्चाभवद्भ्रष्टा मयैतत्किल कारितम्
राज्यत्यागफलं सर्वं यदेतद् अभिलष्यते तथेति प्राह राजा तु पुनस्तामभिनन्दयन्
त्वत्प्रसादादिदं सर्वं मयैतत्प्राप्यते फलम् ततस्ते योगमास्थाय सर्व एव वनौकसः
ब्रह्मरन्ध्रेण परमं पदमापुस्तपोबलात् एवमायुर्धनं विद्यां स्वर्गं मोक्षं सुखानि च
प्रयच्छन्ति सुतान्राज्यं नृणां प्रीताः पितामहाः य इदं पितृमाहात्म्यं ब्रह्मदत्तस्य च द्विजाः
द्विजेभ्यः श्रावयेद्यो वा शृणोत्यथ पठेत्तु वा कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते
कस्मिन्काले च तच्छ्राद्धम् अनन्तफलदं भवेत् कस्मिन्वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत्
अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये यत्किंचिद्दीयते तत्र तदक्षयमुदाहृतम्
तीर्थानि यानि शस्तानि पितॄणां वल्लभानि च नामतस्तानि वक्ष्यामि संक्षेपेण द्विजोत्तमाः
पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम् यत्रास्ते देवदेवेशः स्वयमेव पितामहः
तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः
एष्टव्या बहवः पुत्रा यद्येको ऽपि गयां व्रजेत् यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
तथा वाराणसी पुण्या पितॄणां वल्लभा सदा यत्राविमुक्तसांनिध्यं भुक्तिमुक्तिफलप्रदम्
पितॄणां वल्लभं तद्वत् पुण्यं च विमलेश्वरम् पितृतीर्थं प्रयागं तु सर्वकामफलप्रदम्
वटेश्वरस्तु भगवान् माधवेन समन्वितः योगनिद्राशयस्तद्वत् सदा वसति केशवः
दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव च नन्दाथ ललिता तद्वत् तीर्थं मायापुरी शुभा
तथा मित्रपदं नाम ततः केदारमुत्तमम् गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम्
तीर्थं ब्रह्मसरस्तद्वच् छतद्रुसलिले ह्रदे तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम्
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः तथा यज्ञवराहस्तु देवदेवश्च शूलभृत्
यत्र तत्काञ्चनं द्वारम् अष्टादशभुजो हरः नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा
तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम् देवदेवस्य तत्रापि वाराहस्य तु दर्शनम्
यः प्रयाति स पूतात्मा नारायणपदं व्रजेत् कृतशौचं महापुण्यं सर्वपापनिषूदनम्
यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा
संगमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा कुरुक्षेत्रं महापुण्यं सर्वतीर्थसमन्वितम्
तथा च सरयूः पुण्या सर्वदेवनमस्कृता इरावती नदी तद्वत् पितृतीर्थाधिवासिनी