कथं सत्त्वरुतज्ञो ऽभूद् ब्रह्मदत्तो धरातले तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम्
तस्मिन्नेव पुरे जातास् ते च चक्राह्वयास्तदा वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा
धृतिमांस्तत्त्वदर्शी च विद्याचण्डस् तपोत्सुकः नामतः कर्मतश्चैते सुदरिद्रस्य ते सुताः
तपसे बुद्धिरभवत् तदा तेषां द्विजन्मनाम् यास्यामः परमां सिद्धिम् इत्य् ऊचुस् ते द्विजोत्तमाः
ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः उवाच दीनया वाचा किमेतदिति पुत्रकाः
अधर्म एष इति वः पिता तान् अभ्यवारयत् वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः
को नु धर्मो ऽत्र भविता मत्त्यागाद्गतिरेव वा ऊचुस्ते कल्पिता वृत्तिस् तव तात वदस्व तत्
वित्तमेतत्पुरो राज्ञः स ते दास्यति पुष्कलम् धनं ग्रामसहस्राणि प्रभाते पठतस्तव
ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः
इत्युक्त्वा पितरं जग्मुस् ते वनं तपसे पुनः वृद्धो ऽपि राजभवनं जगामात्मार्थसिद्धये
अनघो नाम वैभ्राजः पाञ्चालाधिपतिः पुरा पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम्
आराधयामास विभुं तीव्रव्रतपरायणः ततः कालेन महता तुष्टस्तस्य जनार्दनः
वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप एवमुक्तस्तु देवेन वव्रे स वरमुत्तमम्
पुत्रं मे देहि देवेश महाबलपराक्रमम् पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम्
सर्वसत्त्वरुतज्ञं मे देहि योगिनमात्मजम् एवमस्त्विति विश्वात्मा तमाह परमेश्वरः
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ततः स तस्य पुत्रो ऽभूद् ब्रह्मदत्तः प्रतापवान्
सर्वसत्त्वानुकम्पी च सर्वसत्त्वबलाधिकः सर्वसत्त्वरुतज्ञश्च सर्वसत्त्वेश्वरेश्वरः
अहसत्तेन योगात्मा स पिपीलिकरागतः यत्र तत्कीटमिथुनं रममाणमवस्थितम्
ततः सा संनतिर्दृष्ट्वा तं हसन्तं सुविस्मिता किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम्
अकस्मादतिहासस्ते किमर्थमभवन्नृप हास्यहेतुं न जानामि यदकाले कृतं त्वया
अवदद्राजपुत्रो ऽपि स पिपीलिकभाषितम् रागवाग्भिः समुत्पन्नम् एतद्धास्यं वरानने
न चान्यत्कारणं किंचिद् धास्यहेतौ शुचिस्मिते न सामन्यत् तदा देवी प्राहालीकमिदं वचः
अहमेवाद्य हसिता न जीविष्ये त्वयाधुना कथं पिपीलिकालापं मर्त्यो वेत्ति विना सुरान्
तस्मात्त्वयाहम् एवेह हसिता किमतः परम् ततो निरुत्तरो राजा जिज्ञासुस्तत्पुरो हरेः
आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः स्वप्ने प्राह हृषीकेशः प्रभाते पर्यटन्पुरम्
वृद्धद्विजो यस्तद्वाक्यात् सर्वं ज्ञास्यस्यशेषतः इत्युक्त्वान्तर्दधे विष्णुः प्रभाते ऽथ नृपः पुरात्
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः गदन्तं विप्रम् आयान्तं तं वृद्धं संददर्श ह
ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः
इत्याकर्ण्य वचस्ताभ्यां स पपात शुचा ततः जातिस्मरत्वमगमत् तौ च मन्त्रिवराव् उभौ
कामशास्त्रप्रणेता च बाभ्रव्यस्तु सुबालकः पाञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्