यन्मां वदसि युद्धार्थे देवराज वरप्रद एष वर्षामि शिशिरं दैत्यमायापकर्षणम्
एतान्मच्छीतनिर्दग्धान् पश्य त्वं हिमवेष्टितान् विमायान्विमदांश्चैव दैत्यसिंहान्महाहवे
इत्युक्त्वा तारकाधीशः सजलेशः शिवोदकैः प्लावयामास सैन्यानि सुराणां शान्तिवृद्धये
तेषां हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः वेष्टयन्ति स्म तान्घोरान् दैत्यान्मेघगणा इव