पिपीलिकामनुनयन् परितः कीटकामुकः पञ्चबाणाभितप्ताङ्गः सगद्गदमुवाच ह
न त्वया सदृशी लोके कामिनी विद्यते क्वचित् मध्यक्षामातिजघना बृहद्वक्षो ऽभिगामिनी
सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी सुलक्ष्यनेत्ररसना गुडशर्करवत्सला
भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि प्रोषिते सति दीना त्वं क्रुद्धे ऽपि भयचञ्चला
किमर्थं वद कल्याणि सरोषवदना स्थिता सा तमाह सकोपा तु किम् आलपसि मां शठ
त्वया मोदकचूर्णं तु मां विहाय विनेष्यता प्रदत्तं समतिक्रान्ते दिने ऽन्यस्याः समन्मथ
त्वत्सादृश्यान्मया दत्तम् अन्यस्यै वरवर्णिनि तदेकमपराधं मे क्षन्तुमर्हसि भामिनि
नैतदेवं करिष्यामि पुनः क्वापीह सुव्रते स्पृशामि पादौ सत्येन प्रसीद प्रणतस्य मे
इति तद्वचनं श्रुत्वा सा प्रसन्नाभवत्ततः आत्मानम् अर्पयामास मोहनाय पिपीलिका
ब्रह्मदत्तो ऽप्यशेषं तं ज्ञात्वा विस्मयम् आगमत् सर्वसत्त्वरुतज्ञत्वात् प्रसादाच् चक्रपाणिनः
कथं सत्त्वरुतज्ञो ऽभूद् ब्रह्मदत्तो धरातले तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम्
तस्मिन्नेव पुरे जातास् ते च चक्राह्वयास्तदा वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा
धृतिमांस्तत्त्वदर्शी च विद्याचण्डस् तपोत्सुकः नामतः कर्मतश्चैते सुदरिद्रस्य ते सुताः
तपसे बुद्धिरभवत् तदा तेषां द्विजन्मनाम् यास्यामः परमां सिद्धिम् इत्य् ऊचुस् ते द्विजोत्तमाः
ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः उवाच दीनया वाचा किमेतदिति पुत्रकाः
अधर्म एष इति वः पिता तान् अभ्यवारयत् वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः
को नु धर्मो ऽत्र भविता मत्त्यागाद्गतिरेव वा ऊचुस्ते कल्पिता वृत्तिस् तव तात वदस्व तत्
वित्तमेतत्पुरो राज्ञः स ते दास्यति पुष्कलम् धनं ग्रामसहस्राणि प्रभाते पठतस्तव
ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः
इत्युक्त्वा पितरं जग्मुस् ते वनं तपसे पुनः वृद्धो ऽपि राजभवनं जगामात्मार्थसिद्धये
अनघो नाम वैभ्राजः पाञ्चालाधिपतिः पुरा पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम्
आराधयामास विभुं तीव्रव्रतपरायणः ततः कालेन महता तुष्टस्तस्य जनार्दनः
वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप एवमुक्तस्तु देवेन वव्रे स वरमुत्तमम्
पुत्रं मे देहि देवेश महाबलपराक्रमम् पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम्
सर्वसत्त्वरुतज्ञं मे देहि योगिनमात्मजम् एवमस्त्विति विश्वात्मा तमाह परमेश्वरः
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ततः स तस्य पुत्रो ऽभूद् ब्रह्मदत्तः प्रतापवान्
सर्वसत्त्वानुकम्पी च सर्वसत्त्वबलाधिकः सर्वसत्त्वरुतज्ञश्च सर्वसत्त्वेश्वरेश्वरः
अहसत्तेन योगात्मा स पिपीलिकरागतः यत्र तत्कीटमिथुनं रममाणमवस्थितम्
ततः सा संनतिर्दृष्ट्वा तं हसन्तं सुविस्मिता किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम्
अकस्मादतिहासस्ते किमर्थमभवन्नृप हास्यहेतुं न जानामि यदकाले कृतं त्वया