प्रभातकाले सम्प्राप्ते काङ्क्षितव्ये समागमे भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम्
कुत्र चास्य निवासः स्याद् भोजनं वा किमात्मकम् विधास्यतीह भगवान् वीर्यतुल्यं महौजसः
वडवामुखे ऽस्य वसतिः समुद्रे वै भविष्यति मम योनिर्जलं विप्र तस्य पीतवतः सुखम्
यत्राहमास नियतं पिबन्वारिमयं हविः तद्धविस्तव पुत्रस्य विसृजाम्यालयं च तत्
ततो युगान्ते भूतानाम् एष चाहं च पुत्रक सहितौ विचरिष्यावो निष्पुत्राणामृणापहः
एषो ऽग्निर् अन्तकाले तु सलिलाशी मया कृतः दहनः सर्वभूतानां सदेवासुररक्षसाम्
एवमस्त्विति तं सो ऽग्निः संवृतज्वालमण्डलः प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम्
प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः और्वस्याग्नेः प्रभां ज्ञात्वा स्वां स्वां गतिमुपाश्रिताः
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम् उच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम् तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः
अहं तु तव पुत्रस्य तव चैव महाव्रत भृत्य इत्यवगन्तव्यः साध्यो यदिह कर्मणा
तन्मां पश्य समापन्नं तवैवाराधने रतम् यदि सीदेन्मुनिश्रेष्ठ तवैव स्यात्पराजयः
धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य ते ऽहं गुरुः स्थितः नास्ति मे तपसानेन भयमद्येह सुव्रत
तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम् निरिन्धनामग्निमयीं दुर्धर्षां पावकैरपि
एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे संरक्षत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति
एवमस्त्विति तां गृह्य प्रणम्य मुनिपुंगवम् जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः
एषा दुर्विषहा माया देवैरपि दुरासदा और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना
तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा
यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान्सुखी दीयतां मे सखा शक्र तोययोनिर्निशाकरः
तेनाहं सह संगम्य यादोभिश्च समावृतः मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः
एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्धनः संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम्
गच्छ सोम सहायत्वं कुरु पाशधरस्य वै असुराणां विनाशाय जयार्थं च दिवौकसाम्
त्वं मत्तः प्रतिवीर्यश्च ज्योतिषां चेश्वरेश्वरः त्वन्मयं सर्वलोकेषु रसं रसविदो विदुः
क्षयवृद्धी तव व्यक्ते सागरस्येव मण्डले परिवर्तस्यहोरात्रं कालं जगति योजयन्
लोकच्छायामयं लक्ष्म तवाङ्कः शशसंनिभः न विदुः सोम देवापि ये च नक्षत्रयोनयः
त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः तमः प्रोत्सार्य महसा भासयस्यखिलं जगत्
श्वेतभानुर् हिमतनुर् ज्योतिषाम् अधिपः शशी अधिकृत् कालयोगात्मा इष्टो यज्ञरसो ऽव्ययः
ओषधीशः क्रियायोनिर् हरशेखरभाक्तथा शीतांशुरमृताधारश् चपलः श्वेतवाहनः
त्वं कान्तिः कान्तिवपुषां त्वं सोमः सोमपायिनाम् सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वम् ऋक्षराट्
तद्गच्छ त्वं महासेन वरुणेन वरूथिना शमय त्वासुरीं मायां यया दह्याम संयुगे