एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति परां गतिम्
ब्रह्यचर्याद्ब्राह्मणस्य ब्राह्मणत्वं विधीयते एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः
ब्रह्मचर्ये स्थितं सत्यं ब्रह्मचर्ये स्थितं तपः ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि संस्थिताः
नास्ति योगं विना सिद्धिर् न वा सिद्धिं विना यशः नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः
यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम् ब्रह्मचर्यं समाधत्ते किमतः परमं तपः
अयोगे केशधरणम् असंकल्पव्रतक्रियां अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञकम्
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा
यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम् सृजध्वं मानसान्पुत्रान् प्राजापत्येन कर्मणा
मनसा निर्मिता योनिर् आधातव्या तपस्विभिः न दारयोगो बीजं वा व्रतमुक्तं तपस्विनाम्
यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः व्याहृतं सद्भिरत्यर्थम् असद्भिरिव मे मतम्
वपुर्दीप्तान्तरात्मानम् एतत्कृत्वा मनोमयम् दारयोगं विना स्रक्ष्ये पुत्रम् आत्मतनूरुहम्
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः
ऊर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम्
तस्योरुं सहसा भित्त्वा ज्वालामाली ह्यनिन्धनः जगतो दहनाकाङ्क्षी पुत्रो ऽग्निः समपद्यत
ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तको ऽनलः दिधक्षन्निव लोकांस्त्रीञ् जज्ञे परमकोपनः
उत्पन्नमात्रश्चोवाच पितरं क्षीणया गिरा क्षुधा मे बाधते तात जगद्भक्ष्ये त्यजस्व माम्
त्रिदिवारोहिभिर्ज्वालैर् जृम्भमाणो दिशो दश निर्दहन्सर्वभूतानि ववृधे सो ऽन्तको ऽनलः
एतस्मिन्नन्तरे ब्रह्मा मुनिमूर्वं सभाजयन् उवाच वार्यतां पुत्रो जगतश्च दयां कुरु
अस्यापत्यस्य ते विप्र करिष्ये स्थानमुत्तमम् तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर
धन्यो ऽस्म्यनुगृहीतो ऽस्मि यन्मे ऽद्य भगवाञ्छिशोः मतिमेतां ददातीह परमानुग्रहाय वै
प्रभातकाले सम्प्राप्ते काङ्क्षितव्ये समागमे भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम्
कुत्र चास्य निवासः स्याद् भोजनं वा किमात्मकम् विधास्यतीह भगवान् वीर्यतुल्यं महौजसः
वडवामुखे ऽस्य वसतिः समुद्रे वै भविष्यति मम योनिर्जलं विप्र तस्य पीतवतः सुखम्
यत्राहमास नियतं पिबन्वारिमयं हविः तद्धविस्तव पुत्रस्य विसृजाम्यालयं च तत्
ततो युगान्ते भूतानाम् एष चाहं च पुत्रक सहितौ विचरिष्यावो निष्पुत्राणामृणापहः
एषो ऽग्निर् अन्तकाले तु सलिलाशी मया कृतः दहनः सर्वभूतानां सदेवासुररक्षसाम्
एवमस्त्विति तं सो ऽग्निः संवृतज्वालमण्डलः प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम्
प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः और्वस्याग्नेः प्रभां ज्ञात्वा स्वां स्वां गतिमुपाश्रिताः
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम् उच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम् तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः